________________
विरचितम्]
श्रीपार्श्वनाथस्तवनम् ।
१२९
[३१] श्रीजयकीर्तिमूरिविरचितं श्रीपार्श्वदेवस्तवनम् ।
सदा वासना पासना पाय पेषी नवां काज संसारनां हो उवेषो । धरइ नाम जे ताहरउं देव ! हीयइ महीना हि तेना हवा मे महीयइ ।।
व्याख्या । ॐ नमः श्रीसर्वज्ञाय ॥ श्रीपूज्याराध्यध्येय-श्रीमदश्चलगच्छेशश्रीजयकीर्तिसूरीश्वरविरचितश्रीपार्श्वदेवस्तवनावचूरिः सङ्खपतो लिख्यते । तत्रेदमादिवृत्तम्[सदावासनापासनापायपेषी नवाङ्काजसं सारनाहो ! उवेषी । धरइनामजेताऽहर उदेव हि य इमहीनाहितेना हवामे महीय इम् ! ॥
'हे 'सारन !' सारं नं-ज्ञानं यस्य, तत्सम्बोधनम् । हे 'अहीनाहितेन !' अहीनः-धरणेन्द्रस्तत्र आहिता-न्यस्ता या ई-लक्ष्मीः तस्या इन !, सेवकश्रियः स्वाम्यायत्तत्वात् । 'हे अहवामे' अहो सम्बोधने । यस्त्वम् ईषद्धीनसत्वतया अल्प मे अमे (१। ई-कामं अहरः-हृतवान् । 'ही' इति विस्मये। किंविशिष्टं इम् ? 'नवाकाजसम् ' नवा अङ्का-अक्षसूत्राद्या येषां ते अजाः-ब्रह्मायास्त्रयो देवास्तान् स्यसि-विडम्बयति इति , यस्तम् । किंरूपस्त्वम् ? सदावासनायाः-सुश्रद्धायाः अपासनं-निराकरणं यैस्तान् अपायान्-क्लेशान् पिनष्टि-चूर्णयति इति 'सदावासनापासनापायपेषी'। पुनः किंविशिष्टस्त्वम् ? ऊः-ज्ञानं तया वेवेष्टि-विश्वं व्याप्नोति इत्येवंशीलः । यद्वा उः-शिवः तद्वद् वेवेष्टि इति 'उवेषी' । तथा 'धरइनामजेता' धरः-कुलाचलः, इनः-सूर्यः तद्वद् आमानां-रोगाणां जेता । ' आरोग्य भास्करादिच्छेत् ' (
) इति वचनात् । 'उङ् कुड' धातोः क्विपि उत् । ततः उदेव-वक्ता एव, अर्थात् धर्मस्य । 'ई' सम्बो. धने । अहम् । यत्तदोनित्यसम्बन्धात् । तं त्वां महीये ''महीङ्' कण्ड्वादिगणसत्कः, पूजयामि ॥ ॥