________________
१२८
जैनस्तोत्रसन्दोहे
[३०]
मन्त्राक्षर गर्भितः
श्रीपार्श्वनाथस्तवः |
[ कर्तृनाम
ही अर्हमथो नमो भगवते श्रीपार्श्वनाथाय यो
मध्ये पङ्कजमूर्ध्नि मूर्तिरतनुः स्फारस्फटामण्डितः ।
ँ
ॐ ह्रीं श्री धरणेन्द्रसेवितचतुर्दिक्पार्श्वभागेऽष्टभिःपत्रस्थैः सहिताय वर्णनिवहैः पद्मावतीमुख्यकैः ॥ १ ॥ अट्टेमट्टे जिनेन्द्रकमकजनिकटे क्षुद्रसंसद्विघट्टे
·
क्षुद्रं द्राग् देवि ! पार्श्वक्रमकमलजुषां स्तम्भय स्तम्भयोच्चैः । स्वाहान्तेऽथ त्रिलोकीत्रिगुणपरिवृता कोंनिरुद्धे ! विदध्याः
सद्यः सिद्धिं मनीषां विजयमसुमतामिष्टदा कामधेनुः ॥ २ ॥ आस्थानेषु महीभुजां स विजयी नश्यन्त्यवश्यं ततो
वेलैकान्तरिकत्रिनित्यकमहाचातुर्थिकाद्या ज्वराः ।
नालं मुद्गलशाकिनीप्रभृतयस्त्रातुः पुरस्त्वादृशे
निर्भीको भुवि बम्भ्रमीति य इमां त्वत्पादसेवां वहेत् ॥ ३॥
*स्तवेऽत्र गुप्तीकृतस्त्रिभुवनविजयपताकानाम - श्रीपार्श्वनाथमन्त्रश्चैवम्ॐ नमो भगवते श्रीपार्श्वनाथाय हीँ धरणेन्द्र पद्मावतीसहिताय अट्टेमेट्टे क्षुद्रविघट्टे क्षुद्रान् स्तम्भय स्तम्भय स्वाहा ।