SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथस्तोत्रम् | [ २८ ] श्रीउदयधर्म गणिप्रणीतं श्रीजीरा पल्लिपार्श्वनाथस्तवनम् । गणिविरचितम् ] १२५ सुधाशनक्ष्माधरधीर ! जोरिका पुरीपुरन्ध्रीमृगनाभिपुण्ड्रक ! | अयं जनः पार्श्वविभो ! विभावरीविभुप्रभान् भासयते भवद्गुणान् ॥ अमेय ! वामेय ! जिनेश ! नेशते सुरासुरा अप्यखिलास्तव स्तवे । क्व तत्र मादृक्षजनस्य मूढतायुतस्य विस्फूर्तिमियर्ति शेमुषी ? ॥२॥ तदप्यमन्दप्रमदप्रकर्षवः प्रभो ! गुणास्तव कांश्चन ब्रुवे । सधर्मतां संश्रयते रजोऽपि किं न भानुभानुप्रकरप्रभावतः ? ॥३॥ न दृश्यते नाथ ! तवातनुस्तनुः प्रभाप्रभावः पुनरद्भुतावधिः । महातमो हन्त्यणुरप्यथांशुमान् महस्विमाहात्म्यमहो महत्ततः ॥४॥ श्रितेषु सर्वेषु सुरेष्वदृश्यतां जिनेश ! जागर्ति भवान् प्रतापवान् । तपे हि तापेन सरस्सु निर्जलोकृतेषु वारांनिधिरेव गर्जति ॥ ५ ॥ स्थलेऽनलेद्धे मकराकुले जले वने घने चापि महारणे रणे । वदोयनाम स्मरतां सतां सतां न जातु भीतिर्भुवि बोभवीति वैं ॥६॥ कठोरचोरस्फुटसङ्कटोत्करे स्वसद्मनीवाध्वनि यात्रिका जनाः । अपायमुक्ताः प्रचुरं चरन्ति यन्महान् प्रतापः खलु तावकः सकः ॥७॥ सकासकण्डूश्वयथुक्षतनमिस्फुरन्मत्पित्तकफज्वरादिभिः । नरो न रोगैरधिपाभिभूयते शरण्य ! यस्त्वां शरणं प्रपद्यते ॥ ८ ॥ न तस्य दस्यूरगवारिवारिधिद्विपद्विपद्वेष्य हितानलादयः । भवन्ति भीत्यै भयभित् व्वमीश ! यन्मनोऽम्बुजे राजसि राजहंसवत् ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy