________________
मुनिविरचितम् ]
श्रीपार्श्वनाथस्तोत्रम् |
१११
नमस्ते विभो ! सर्वविद्यामयाय नमस्तेऽङ्गिसल्लब्दिलीलालयाय । नमस्तेऽसम श्रेष्ठ देवेश्वराय नमस्ते नमस्ते नमस्ते नमस्ते ॥९॥ जय त्वं जगन्नेत्रपीयूषपात्र ! जय त्वं सुधांशुप्रभागौरगात्र ! |
जय त्वं सदा मन्मनः स्थायिमुद्र ! जय त्वं जय त्वं जय त्वं जिनेन्द्र ! ॥ १० ॥ इत्थं स्वल्पधियापि भक्त (ति) जनितोत्साहान्मया संस्तुतः
श्रीशङ्खेश्वरपार्श्वनाथ ! नतसद्भक्तैकचिन्तामणे ! |
सर्वोत्कृष्ट पद प्रदान रसिकं सर्वार्थसंसाधकं
तन्मे देहि जिनाङ्घ्रिपद्मविमल श्रीहंसरत्नायितम् ॥ ११ ॥
[ २४ ]
श्री हंसरत्नमुनिविनिर्मितं श्रीशङ्खे श्वरपार्श्वनाथच्छन्दः ।
आर्या
सकलसुरासुरखन्धं हृद्यगुणं जगदनिन्द्यमहिमानम् । श्रीशङ्गेश्वरपुरवरमण्डनमभिनौमि पार्श्वजिनम् ॥ १ ॥
त्रिभङ्गीच्छन्द:
'शिवसुखदातारं विश्वाधार सौम्याकारं नेतारं
जित मदनविकारं करुणागारं हतरिपुवारं जेतारम् ।