SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रोरत्नशेखरपूरि __ [२२] श्रीचारूपमण्डनपार्श्वजिनस्तवनम् । श्रीचारूपपुरप्रधानवसुधालङ्कारचूडामणि- प्रायं स्फारफणामणिद्युतिभरैराभासिताशामुखम् । कल्पक्षोणिरुहातिशेशववयःपत्रालिवित्रासकृत् कायच्छायमहं स्तवोमि मुदितः श्रीपार्श्वविश्वेश्वरम् ॥ १॥ अतुल्यकल्याणलसल्लतानामारोढुमूर्ध्वं तव मूर्धसंस्थाः। . जगत्प्रभो ! स्फारफणाः श्रयन्ते श्रियं सदा माण्डपिकीमखण्डाम् ॥२॥ अङ्के शिरोऽग्रे च भुजङ्गधारी दृष्टोऽपि दुर्दोषविषापहारी । एकातपत्रो भुवने नरेन्द्रस्त्वमेव नम्रामरमानवेन्द्रः ॥ ३ ॥ धर्मोपदेशे फणनिःसपत्नरत्नोश्रमिश्रीकृतकृष्णकान्तिः । गर्जस्तडित्वानिव देव ! दत्से मुदं न केषाममृतार्थिनां त्वम् ।। ४ ॥ फणामणीनां तव देव ! दीप्रतरा छुतो व्योमनि विस्फुरन्त्यः । राजन्ति रेषा इव काञ्चनस्य कषोपले जात्यतरस्य दत्ताः ॥ ५ ॥ तव प्रभो ! स्फारफणा भुजङ्गाः स्फुरन्मणिश्रेणिरुचारुणाङ्गाः । तथा दशन्त्यान्तरवैरिवारं यथा प्रतीकारकथा पुनर्न ॥६॥ सत्कज्जलश्यामलतां वहन्ती फणानणोयोमणिभिर्विभान्ती। . दीपालिकारात्रिरिव प्रदीप्रदीपाऽस्तु मूर्तिस्तव हर्षहेतुः ॥ ७ ॥ फणाग्रजाग्रन्मणिराजिराजमानेन्द्रनीलामलनीलकायः । सत्पुष्पभृत् पत्रलहेमपुष्पमहोरुहौपम्यमशिश्रियस्त्वम् ॥ ८ ॥ विभिद्य माद्यदुरपोहमोहमहान्धकार प्रकटानि कुर्युः । सप्तापि तत्त्वानि विभो ! फणाग्रजाग्रत्तमास्ते मणिदीप्रदीपाः ॥९॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy