SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १०७ शिष्यविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । कुर्याद् धूर्यांश्चरणरथधूर्धारणे वारणेन्द्र प्रोन्निद्राङ्गच्छविरविरतं पार्थविश्वेश्वरो वः । भाले यस्य स्फुरति तिलकं कम्रकालेयकान्ति प्राणम्राणां भुवि शिवपुरप्रापकः किं नु दण्डः ? ॥ २१ ॥ तन्याद् धन्यात्मकजनततौ नस्ततौजः प्रतिष्ठां श्रीवामासूस्तिलकमलकालङ्कृति ति यस्य । मन्ये न्यञ्चत्कुगतिनगरद्वारसंरोधकारी मक्तानामप्रतिघमरिघः सज्जवनात्मकोऽसौ ॥ २२ ॥ वक्त्राम्भोजेऽभिमुखमभितो बिम्बभृद्भिः फणोद्यद् स्नैस्तारावलयमभवत् तस्य मध्ये दधौ च । सट्टादृश्यं ध्रुववररमां यस्य दीयल्ललाम स्थाम स्थेयः स दिशतु जिनः कर्मवैरिच्छिदे नः ॥२३॥ देयाद् गेयानणुगुणरमां पार्श्वनामा ममाह न्नैतद्रानं तिलकमनिभं यस्य बाभाति भाले । किन्त्वाक्रान्तं प्रकटमहिमामत्रमन्त्रप्रयोगै गोशीर्षोत्थं भुवनसुदृशां वश्यकृद् विष्वगेतत् ॥ २४ ॥ एवं श्रीगुरुरत्नशेखरतुलस्फूर्जत्फणामण्डलः - श्रीपार्श्वस्तिलकाङ्किताघरचनारुच्यः स्तवेन स्तुतः । दद्यान्मे निरवद्यमुद्यमगुणं स्वाज्ञापरिज्ञाविधौ येन स्यां नवसोमसुंदरपरब्रह्मैकलोलालयः ॥ २५ ॥ इति श्रीमहोशानकपुरवरालङ्कारश्रीअश्वसेननृपनन्दनजिननायकस्तवनम् श्रीतपागच्छाधिराजपरमगुरुप्रभुश्रीश्रीरत्नशेखरशिष्यपरमाणुविरचितम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy