________________
२०६
श्रीजैनस्तोत्रसन्दोहे [ श्रीरत्नशेखरसूरि
अष्टौ पुण्ड्रस्फुटमणिनिभाद् यो बिभर्त्ति प्रदीपान् स श्रीवामात्मजजिनपतिः पातु नः पङ्कपातात् ॥ १५ ॥ अङ्गान्यष्टौ न जहति हिताभोगयोगस्य येना'कालैकात्म्यार्जितदृढसुहृत्त्वानि मुक्तेऽपि यस्मिन् । अत्रस्थां यत्प्रतिकृतिमपि प्रेमनिर्बन्धतः किं
पुण्डप्रेस फणमणिमिषात् सैष देवो मुदे वः ॥ १६ ॥ शास्त्रेऽस्माकं मुनिभिरवमं द्रव्यतो मङ्गलत्वं
ख्यातं तन्नः प्रवितर शुभं भावतस्तत् स्वसंस्थम् । विज्ञप्त्यै यं किमिति समुपेतानि सान्द्राणि भद्रा -
ण्यष्टौ पुण्ड्रस्फुटमणिनिभाद् भद्रकृत् सोऽस्तु पार्श्वः ॥ १७॥ नन्द्याद् विद्याधरनरसुरारब्धपादाब्जसेवः
पार्श्वों देवः फणमणिलसत्पुण्डसङ्क्रान्तियोगात् । दधे मूर्तीर्नव हितमनाः किं नु सत्वादितत्त्वान्याख्यातुं यः कृतिजनततेर्विस्तरेणैककालम् ॥ १८ ॥ स्थास्नुर्यस्य प्रकट महिमान्यानने काननेऽस्मिन्
श्रीमान् शान्तः प्रविदितरसाधीशिताऽसाधयन्नु । लक्ष्यं पुण्ड्रच्छलमसिवरं सूर्यहासं द्विभेद
द्वेषिश्रेणीमदभिदमसौ पार्श्वदेवो मुदेवः ॥ १९ ॥ प्रात् कोटिं लवणिमरमा यस्य सदेह गेहे
तेनासौ किं कनति निहितो रत्नपुण्ड्रच्छलेन ।
शृङ्गे तस्य प्रसृमररुचीचोनचीरध्वजः श्री
पार्श्वः
शश्वत् स भवतु भवभ्रान्तिभिद् भावभाजाम् ||२०lt