SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ शिष्यविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । श्रीवामेयः प्रथयतु ममामेयमाहात्म्यगेयः ___प्रेयः श्रेयस्तिलकनयनाद्यत्फणारत्नदम्भात् । . धत्ते दातुं दश सुरमणीन् भास्वरांस्तुल्यकालं चेतोऽभीष्टान्यधिदशहरित्तस्थुषां नेमुषां यः ॥ १० ॥ पोपोषीति स्वयमविरतं पोषयेच्चापरैर्नः स्वामी विश्वेऽप्ययमिति मुदा किन्त्वमान्तो यदङ्गे । एतेऽभूवन् बहिरनिभृताः साधुधर्मप्रकाराः प्रेतत्पुण्ड्रेक्षणफणमणिव्याजतः पातु सोऽर्हन् ॥११॥ अष्टार्ना यः शुभमृगदृशांकेलये सिद्धिनाम्नां धत्ते रात्नान् प्रवरमुकुरान् स्वेन पाणौ कृतानाम् । प्रोद्यत्पुण्डस्फुटमणितनून्नूनमन्यूनऋद्धयै भूयाद् भूयोऽतिशयभवनं वः स वामाङ्गजोऽर्हन्॥१२॥ एकाग्रोऽष्टौ प्रवचनमताः पालयेद् यः किलाम्बाः । ___स स्यान्मद्वत् परमपदसम्प्राप्तिमात्रं किमेतत् । ज्ञीप्सुयस्ताः स्वशिरसि सतां दर्शयेद् यः स्फुटास्ताः प्रोद्यत्पुण्ड्रस्फुटमणिनिभाद् भूतय स्तात् स पाश्वः ॥१३॥ त्रैलोक्येऽप्यद् भुतगुणवरं प्राप्य वेगाद् वरोतुं - प्रीत्योपेता किलनवनिधिश्रीवधू धूतभेदम् । सम्यक् सम्भावयितुमभवत् सङ्गमाद् योऽपि तावन् मूर्तिः पुण्डूस्फुटमणिगणे स श्रिये वोऽस्तु पार्श्वः ॥१४॥ शङ्के काष्ठाष्टकगतनृणां मुक्तिमार्गप्रचारे दग्व्यालोऽपि प्रबलतमसरिछत्तये व्यक्तशक्तीन् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy