SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीरत्नशेखरसरिपार्श्वः सोऽर्हन् सुरपरिवृढाभ्यर्हणीयाज्रिपन्नः पद्माभोगं घटयतु गतच्छद्मसेवोंधतानाम् । रत्नोद्भूता तिलककलिता यस्य भालाग्रभागे ___ भाति प्रौढोदयगिरिस्यंशुमन्मण्डलीव ॥ ५ ॥ ईदृग् नान्यत् पदमुदयकृद् विद्यतेऽस्माकमुच्चै___स्त्रैधेऽप्यस्मिञ् जगति बत सञ्चिन्त्यमानं किमेवम् । ध्यात्या लोकत्रितयकमलाः संश्रियुर्यन्मुखाब्जं दृग्वन्द्वोद्यत्तिलकतनवः पार्थदेवः स जीयात् ॥ ६॥ बिभ्रद् गर्भात् प्रभृति विमलज्ञानऋद्धीः समिद्धा स्तिस्रोऽजस्रं प्रभुरतिशयी कृत्स्ननृभ्यस्तदाभूत् । इत्यैतिचं स्मरति मतिमान् प्रेक्ष्य यस्याक्षिपुण्ड्रान् सार्वः पार्श्वः स भवतु भवक्ष्मारुहे पार्श्ववन्मे ॥७॥ त्रय्यास्तेजश्चयशुचिवपुर्मार्गगैर्यिमाणः क्षितोत्सर्पन्निबिडजडिमाप्रपञ्चैकबीजम् । ईदृक्षोऽपि श्रयति न तुलां पङ्कजन्मर्द्धिकृत्वा यद्वक्त्रे गाम्बरमगिरसौ मां पृणात्वेष पार्श्वः ॥ ८ ॥ सप्तस्फूर्जफगमणिलसल्लोचतोयल्ललाम व्याजात् प्रामृत्यकृत किमिह स्वस्वमेकैकरत्नम् । दिपालौघो दशहरिदधीशस्य यस्य प्रसत्यै ...... शैवं शर्म प्रदिशतु सतामाश्वसेनिर्जिनोऽसौ ॥ ९ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy