________________
शिष्यविरचितम् ] श्रीपार्श्वजिनस्तवनम्'।
[२१] श्रीरत्नशेखरमरिशिष्यकृतं ___ महीशानापुरालङ्कार श्रीपार्श्वजिनस्तवनम्।
श्रीमान् पार्श्वः प्रभुरभिमतं भावभर्तुर्बिभर्तु ___ स्मर्तुः पुंसः पुरवरमहीशानको॰वतंसः । रात्नं भास्वत्तिलकमलके भाति यस्य स्मरारे ___स्तार्तीयीकं नयनमनिभं चित्रभान्वात्मकं तु ॥ १ ॥ श्रीवामाभूभवतु भवतुद् दृग्द्वयोपुण्डूदम्भात्
साक्षात्कृत्यादढयदिति यः सत्सुरत्नव्यवस्थाम् । स्थित्या तुल्येऽकलयत किल ज्ञानशीले फलादौ
ताभ्यामत्राभ्यधिकमहिमामर्शनं दर्शनं तु ॥ २ ॥ विश्वाधीशः शमयतु सतामश्वसेनाङ्गजन्मा
जन्मायती प्रतिकृतिगतैनॆत्रयुग्मोघ(च्च)पण्डैः । तुल्यावस्थौ विभवमदनौ ज्ञापयन् कार्यरूपो ____ धर्म प्रोच्च न्यगददनयोः कारणं यस्त्रिवर्गे ॥ ३ ॥ सत्वानां स्यात् सुहृदसुहृदोस्तुल्यवृत्तिर्यदासौ . बुद्धिः शुद्धा सपदि घटते केवलश्रीस्तदैव । सव्यान्याक्ष्णोरिव समभृता पुण्डभङ्गया ममास्ये..
मूर्तिर्यस्य ध्रुवमिति वदत्यस्तु पावः श्रियेऽसौ ॥४॥