________________
૨૭૨
श्रीजैनस्तोत्रसन्दोहे [श्रीजयसागरदिष्टया स्तम्भनकेश ! पार्श्व ! भगवन् ! नानागुणग्रामणी
रेषा श्रीजयसागरेण रचिता स्वल्पाक्षरापि स्तुतिः । तर्कव्याकरणादिशास्त्रविदुषां यायादुपादेयतां सौवर्णाभरणं सुरत्नखचितं यद्वा न कस्य प्रियम् ॥ ५॥
अवचूरिः । , 'दिष्टया स्तम्भनकेश !' इत्यादि, अत्र दिष्टया-हर्षेण नानागुणप्रामणोः इति कर्तुर्वक्तुर्वा अनेकसम्यकशुद्धयादिना गुणसमूहप्राप्तिकारिणीति स्तुतेर्विशेषणम् । शेषं पूर्वा सुगमम् । अथ आशीर्वचनद्वारेण स्तुतेाह्यतामाह-तकेंत्यादि०, तर्कव्याकरणादिशास्त्रे विद्वांसस्तेषामेव एषा स्तुतिर्मत्कृता उपादेयतां-प्राह्यतां यायात्-गच्छतु, न मूर्खाणाम् । यतः
मूढाः कदाग्रहास्ता न सूक्तं बहुमन्यते । - काकानां केवलं विष्ठा मिष्टा भाति न शर्करा ॥
अमुमेवार्थ दृष्टान्तेन दृढयति । यद्वा-अथवा सौवर्णाभरणं-सुवर्णमयालङ्कारः अन्यच्च सुरत्नखचितं-जात्युज्ज्वलमाणिक्यसंबद्धं कस्य सचेतसः प्रियं-प्राह्यतयाऽभीष्टं न भवति । अपि तु सर्वस्यापि तत् प्रियमेक भवतीति ॥५॥ .
॥ इति 'योगात्मना ' यमकबन्धनोपार्श्वनाथस्तवावत्रिः समाप्ता ॥