________________
सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् |
१०१
विभो ! तवासेवनयाऽनयाऽनया निवारिता वाच्यमया मया मयाः । अतः प्रसादाद् भवतोऽवतो वतोत्तीर्णोऽस्मि दुःखात् परमारमार मा ।। यन्मौलिदेशे त्वमदा मदामदा वाञ्छार्थसम्पत्तिकरं करं करम् । तन्मनोऽस्त हरौ हरौ हरौ मायामये नापि भवे भवे भवे ॥४॥ अवचूरिः ।
"
विभो० '
हे विभो ! तव आसेवनया - पर्युपस्त्या, अनया - अधुनैव क्रियमाणया अनया:- उन्मार्गमथा निवारिताः किम्भूता द्या (?) अनया ? इत्यत आहवाच्येत्यादि० वाच्यमयाः - अवर्णवादमयाः कायवाङ्मनसोद्वेजकाः सङ्क्लेशरूपा येभ्यस्ते वाच्यमयाः । मया मया : - करभाः इति यत एवं अतः कारणात् भवतः - तव अवतः - जगद् रक्षतः, प्रासादाद् बत इति विस्मये ।.. दुःखात् उत्तीर्णोऽस्मि इत्यर्थः ।
अन्यथा ( द्वा) परमेत्यादि०, परमा- प्रकृष्टा रमा-श्रीः, मा-इति माम् आर-प्राप, लक्ष्मीं च प्राप्तोऽहमित्यर्थः । आम ' अमादेश ' ( इतिसूत्रेण अमा सह युष्मदः स्थाने मा इत्यादेश इति ॥३॥
>
यन्मौलि०
--
हे देव ! यन्मौलिदेशे – यस्य मस्तकोपरि इत्यर्थः । त्वं अदाःदत्तवान् । कीदृशमदा - जात्यादयः, आमाः - रोगाः, मदाव अमाश्च मदामास्तान् द्यति - छिनत्ति यः मदामदाः, किं त्वं दत्तवान् ? करं - दक्षिणहस्तम् । कीदृशम् ? वाञ्छार्थसम्पत्तिकरम् समस्तवाञ्छित सिद्धिविधायकम् । तथा - सुखं रातीति करं सुखदम् । कस्येदं विशेषणद्वयम् ! | यन्मस्तके त्वं हस्तं दत्तवान् तस्य किं जातमित्याह-न तन्मनो इत्यादिः तस्य न मनोऽरंस्त-न रमते स्म । केष्वित्याह - हरौ - नारायणे, हरौ - इन्द्रे, हरौ -सूर्य, तथा नापि भवे-ईश्वरे मयाम ये - मुधा देवत्वाभिमानभाजि इत्यर्थः । एतद् विशेषणं सर्वत्र हर्यादिषु सम्बन्धनीयम् । भवे भवे प्रत्येक जन्मनीति । अयमिह भावः - यन्मौलो त्वं करं दत्तवान् तस्य मनो नान्यस्मिन् लौकिकदेवादौ रमते, नहि कश्चित् प्राप्तपर्याप्तपरमान्नभोजनः कथं ( ? ) कुशकवलमभिषतीत्यर्थः॥४॥