SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्रसन्दोहे [ श्रीअज्ञातन रोगो न च सम्मोहो न शोको न च साध्वसम् ।. . न दुःखं न च दारिद्रयमलं स्थातुं नते त्वयि ॥ ३ ॥ तव प्रभावतः स्वामिन् ! कलिकालो विनश्वरः । जज्ञे कृतयुगाश्लेष इव लोकोऽपि वैभवात् ।। ४ ॥ जय श्रीस्तम्भनाधीश ! श्रीपार्श्व ! पुरुषोत्तम ! । चूरयन्नघसङ्घातं पूरयन् नरवाञ्छितम् ॥ ५ ॥ [१७] श्रृङ्खलालङ्कारमयं श्रीस्तम्भनपार्श्वजिनस्तवनम् । स्तवीमि तं पाश्वजिनं सदैव तं वतंसकं स्तम्भनपत्तनावनेः । वनेचरा मत्तमतङ्गजादयो दयोदधिं नाभिभवन्ति यं श्रितान् ॥ १॥ श्रितामराधीशमधीशमागता गता महासङ्गरगोचरं नराः । न राजिभिर्जेयवपुःपराक्रमाः क्रमानमन्मल्लमतल्लिकोत्कराः ॥ २ ॥ करा न किं राजभरस्य दुःखदाः खदारण ! त्वां श्रयतां शमाश्रयम् । श्रयन्ति सिंहेन किमङ्कितं वनं वनन्त उच्चैर्मुगधूर्तसञ्चयाः ॥ ३ ॥ चयाय लक्ष्मीर्यतते प्रमेदुरा दुरायतिर्नश्यति तस्य सुप्रिया । प्रिया च पुत्राः सुजनाः स्युराश्रवाः श्रवाय यः पार्श्वगिरः प्रमोदवान् ॥१ दवानल: शाम्यति वारिधिर्धरा धराधरो मन्दिरमिन्दिराकुलम् । कुलं पिशाचादि कुलन्तमहतोऽर्हतो नमस्यां जगतोऽपि यः स्मरेत् ॥५॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy