SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पणिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । एतत्कृत्यविधौ विलम्बमधुना कुर्वन्तु तीर्थानि नो - किं ध्वान्तौघविवाशने दिनपतिः कुर्याद् विलम्ब क्वचित् ॥९॥ सत्तीर्थसप्तकमिदं भुवि सर्वतीर्थमुख्यं जगत्रयविपत्तिविनाशहेतुः । विघ्नं छिनत्तु सुरराजकृतं....सन्तो भवन्ति परकार्यकृतौ हि दक्षाः॥१० विराजमानं वरमन्त्रवर्णैः श्रीसप्ततीर्थीस्तवनं सदैव । सूर्योदये ये सुधियः स्मरन्ति भवन्ति ते भूरिविभूतिभाजः ॥ ११ ॥ स्वकण्ठपीठे बिभराम्बभूवुये सप्ततीर्थीस्तवहारवल्लीम् । स्फुरत्प्रभावस्फुटरत्नरम्यां तदङ्गणे क्रीडति कामधेनुः ॥ १२ ॥ देयादियं विजयसेनमुनीन्द्रशिष्यशिष्यस्य सङ्घविजयस्य सुसप्ततीर्थी । दुष्टाष्टभीतिकजराजिहिमांशुलेखा सानन्दमङ्गलसदोदयसिद्धिवृद्धिम्।१३ इत्य सप्तभयापहारनिपुणा श्रीसप्ततीर्थी स्तुता सप्तद्वीपसमस्तजन्तुहितकृत् सप्ताब्धिकोर्तिस्थितिः । यावत् सप्ततुरङ्गमो जलरुहां प्रीति विधत्तेऽशुभि जर्जीयात् तावदियं विपत्तिदलना सा सर्वभत्र्यात्मनाम् ॥१४॥ [१६] श्रीस्तम्भनपार्श्वजिनस्तवनम् । स्तुवे श्रीस्तम्भवाम्भोजराजहंससमं जिनम् । श्रीपार्थमिष्टदं सर्वविघ्नसङ्घातघातकम् ॥ १ ॥ श्रीदश्चिन्तामणिः कल्पपादपः कामदो घटः । ना ना त्वत्समो मुक्तिचङ्गश्रीसङ्गकारकः ॥ २ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy