________________
श्रीजैनस्तोत्रसन्दोहे [श्रीसङ्घविजयवीजापुरस्थितमहं प्रणमामि नत्रश्रीपार्श्वयक्षमतुलातिशयैकगेहम् । वैरोट्यया स्तुतपदं जिनपार्श्वनाथं पद्मावतीहृदयपङ्कजचञ्चरीकम्॥४॥ श्रीभीडभञ्जन इति प्रथिताभिधानः
श्रोपावसार्वमुकुटो जयमश्नुते स्म । कंसारिनामनगराबनिभासमानः
प्रध्वस्तदुःखदुरितो हतविघ्नवृन्दः ॥ ५ ॥ श्रीगोडीगुरनायकं त्रिभुवनप्रत्यूहविध्वंसकं'
साधुश्रेणिसरोजवासरमणिं सम्पत्तिसम्पादकम् । भेजे भक्तसमस्तदुःखदलनं निःशेषदापहं
कल्याणद्रुमसेचने जलधरं वामेयतीर्थाधिपम् ॥ ६ ॥ श्रीमन्तं वरकाणपार्श्वमवनीख्यातं भजे भक्तितो
___ वामाकुक्षिसरोजशोग-वरणं श्रीअश्वसेनात्मजम् । दुष्टव्यालविषान्धकारहरणे स्निग्धं सरोजन्मना
महन्तं ग्रहशाकिनीनरपतिस्तेनादिभीतिच्छिदम् ॥ ॥ ७ ॥ श्रीमन्मालवदेशभूमिललनाभालस्थलीभूषणं
सेवेऽहं मगसीश्वरं जिनपतिं पाच प्रमोदप्रदम् । आधिव्याधिविनाशकं सुरवरध्येयं मनःपङ्कजे
दुष्टम्लेच्छनृपोत्थकष्टहननं कल्याणलीलालयम् ॥ ८ ॥ सप्तैतानि समस्तसंयमवतां तीर्थानि विघ्नं जवात्
विश्वत्राणपराणि दैत्यविभुना निघ्नन्तु निर्मापितम् ।