________________
सूरिविरचितम् ] श्रीपार्श्वनाथस्तोत्रम् ।
श्रीअश्वसेनकुलपङ्कजन भास्करस्य पद्मावतीधरणराज निषेवितस्य ।
वामाङ्गजस्य पदसंस्तवनालभन्ते
भव्याः श्रियं सुभगतामपि वाञ्छितानि ॥ ९ ॥
[ १५ ] श्रीसङ्घ विजयगणिप्रणीतं श्रीपार्श्व सप्ततीर्थीस्तवनम् ।
नवाजिनमण्डलीसुरगवी मिष्टार्थ सम्पादन
स्मृत्वा सद्वरदायिनी भगवत श्रीसारदां सारदाम् ॥
७
ऐ क्ला मन्त्रपदैर्मुदा मुनिजनध्येयां नमद्दैवतां
झौ स्वाहाक्षर संयुतैः सुखकरी श्रीसप्ततीर्थी स्तुवे ॥ १ ॥
जयति नमदनेका खण्डलश्रेणिमौलि
प्रकटमणिमयूषोद्योतिपादारविन्दः ।
९१
भुवनविदितनामा ध्येय 'शङ्खेश्वरोऽयं
दुरितहरण पार्श्वः पार्श्वनाथः प्रसिद्धः ॥ २ ॥ वन्दे श्रीअणहिलपत्तनपुरालङ्कारहारोपमं श्रीपञ्चासरपार्श्वनाथमनघं प्रौढप्रभावास्पदम् ।
ही श्री धरणेन्द्रसेवितपदं विश्वत्रयीमण्डनं विघ्नव्राततमः प्रसारमथने पाथोजिनीवल्लभम् ॥ ३ ॥