SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् | ग्रहदुःस्थसुस्थजननं सर्वविषोच्छेदनं प्रशान्तिकरम् । प्रध्वस्तदुरितनिचयं पार्श्व योगीश्वरं वन्दे ॥ ३६ ॥ इति मालामन्त्रपदैरभिष्टुतं यः स्मरेत् त्रिसन्ध्यमपि । स करोति नागक्रीडां शिव इव विश्वेदनातीतः ॥ ३७ ॥ भक्तिर्जिनेश्वरे यस्य गन्धमाल्यानुलेपनैः । सम्पूजयति यश्चैनं तयैतत् सफलं भवेत् ॥ ३८ ॥ इति श्री पार्श्वनाथस्तोत्रम् | लि० राजविजयसूरिशिष्य... विजयेन स्वपठनार्थम् । शुभं भवतु || वृत्तिः । स्तवोपसंहारमाह ग्रहदुःस्थ० ८७ O अन्त्यमङ्गलमेतत् । पार्श्वनाम्ना तीर्थकरम् | योगो ध्यानाभ्यामो विद्यते येषां ते योगिनःसाधवस्तेषामोशः- स्वामी तमहं वन्दे । कथम्भूतम् ग्रहैः दुःस्थं ग्रहदुःस्थं प्रकृता या पीडा तदपनोदनेन सुस्थ जननम् । स्थावरजङ्गमविषस्य च्छेदनं - विनाशनम् । प्रकर्षेण शान्तिकरं इत्यर्थः । ध्वस्तदुरितसङ्घातं पार्श्व वन्दे । इति ॥ ३६ ॥ तत्प्रणामादैहिकं फरं भूयो दर्शयति इति मालामन्त्रपदः० इति---अनेन प्रकारेण मालामन्त्र पदैः मालारूपतया व्यवस्थितमन्त्रमुस्तुतं पार्श्वजिन यः पुरुषः स्मरयेत् - ध्यायेत् त्रिसन्ध्यम् । अपिशब्दात् भक्त्या स एवम्भूतो नागक्रीडां करोति । शिव इव - महादेव इव विषवेदनोज्झितः इति । शिवनागयोः संशब्दनादात्माभिधानं कर्ता सूचयति ॥ ३७ ॥ भक्तिरित्यादि-यस्य जिनेश्वरे पार्श्वनाथे भक्तिरस्ति वस्त्रगन्धमास्यनुलेपनद्रव्यतः सम् - एकीभावेन पूजयति भावपुष्यैरेनं पार्श्वजिनं तस्यैत. न्मन्त्रस्तवनं सफलं -साथकं भवेत् भवनति ॥ ३८ ॥ इति पार्श्वजिनस्तवनटीका । लिम्बिना सं. १५२३ वर्षे वैशाख शुदि २ दिने पं० हंसहर्षगणि शिष्येण गन्धारम (ब)न्दिरे ॥ श्रीधरणारगेन्द्र स्तवनटीका समाप्तेति ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy