________________
श्रीजैनस्तोत्रसन्दोहे. [ श्रीशिवनागसुवर्णपक्षं वैनतेयं पक्षिराजं महाबलम् । नागान्तकं जितारिं च अजितं विश्वरूपिणम् ॥ ३१ ॥ विनतायाः सुतं दैत्यं विहङ्गं पन्नगोत्तमम् । गरुन्मन्तं खगेशं च ताक्ष्यं काश्यपनन्दनम् ॥ ३२॥ द्वादशैतानि नामानि गरुडस्य महात्मनः । यः स्मरेत् प्रातरुत्थाय स्नातो वा यदि वाशुचिः ॥३३॥ विषं न क्रमते तस्य न च हिंसन्ति पन्नगाः । न दुष्टा द्रावयन्त्येनं सर्वकार्याणि साधयेत् ॥ ३४ ॥ एवंभूतैस्तु यो नामैः श्रीपार्श्व स्मरयेजिनम् । तस्य रोगाः प्रणश्यन्ति विषं च प्रलयं व्रजेत् ॥ ३५ ॥
वृत्तिः । तदभिधानान्याह
सुवर्ण वैनतेयं च तार्क्ष्य काश्यपनन्दनम् ।
महावलं जितारिं च अजितं विश्वरूपिणम् ॥ ३१ ॥ शोभनवर्णत्वात् सुवर्णम् । विनयेन नता विनता, तस्या अपत्यं वैनतेयम् । काश्यपगोत्रराज्ञः पुत्रम् । अमितबलत्वान्महाबलम् , शत्रुविनाशाज्जितारिम् । रिपूणामभावाद् अजितम् । सर्वगतत्वाद् विश्वरूपिणम् जिनगण्डं भो लोका ! विषघ्नं स्मरत इति ।
फलं दर्शयति- एवंभूतैरन्यैरपि नामभिर्यः पुरुषः श्रीपार्वजिनं स्मरयेत् -चिन्तयेत् तस्य पुरुषस्य रोगाः-ज्वरादयः प्रणश्यन्ति-दूरमपसरन्ति, 'विषं तु-पुनः प्रलयं ब्रजेत्-गच्छेत् ॥ ३५ ॥