SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । हस्ताङ्गुलीषु विन्यस्तं वामकरे भूतपञ्चकं सकलम् । अपहरति समस्तविषं साधकमुष्टिक्रमाबन्धात् ॥ २८ ॥ धरणोरगेन्द्रसुरपतिविद्याधरदैत्यदेवताभिनुतम् । जिनगरुडमप्रमेयं चतुर्वर्णविभूषितं स्मरयेत् ॥ २९ ॥ आजानुकनकगगरं आनाभेः शङ्खकुन्दहरधवलम् । आकण्टतो नवदिवाकरकान्तितुल्यमामूर्धतोऽञ्जननिभं गरुडस्य रूपम् ॥ ३० ॥ वृत्तिः । वारुणमण्डलबीज-वकार पार्थिवबीज-लकाग्युक्तम् , वारुणषीज ह्रींकारेण पुनर्वेष्टितं च पार्थिवबीजाक्षरेण क्षकारेण वेष्टितं, च-पुनः पद्मरूपवारुणमण्डलमध्यस्थं पत्रेयु वारुणबीजं-वकारं पद्मसहितं न्यसेत् , तत्परिणाहे आकाशभूताख्यं संवौषट्सहितं सबिन्दु ठकारवेष्टितं ग्रहशान्ति कुर्यादिति । [ अष्टादशं यन्त्रम् १८ ] एकैकभूते पञ्च पञ्च वर्णा अभिहितास्ते चवं रचनाविशेषतः सर्वकर्मकराः । माहेन्द्रं वारुणं योज्यं सर्वेषु शुभकर्मसु । आग्नेयं चैव वायव्यं मण्डलं दुष्ट कमेसु ॥ कुङ्कभगोरोचनया चन्दनेन लिखनीयमिति ॥ २८ ॥ धरणोरगेन्द्र०-भो लोका ! यदि विषविघातं कर्तुमीप्सथ ततो जिनगारडं स्मरत । कथम्भूतम् ? 'धरणोरगेन्द्र सुरपतिविद्याधरदैत्यदेवताभिनुतम् , ' अभिन तम्-प्रणतम् । अप्रमेयं-अतुलम् । वरज्ञानतेजोभिर्वक्ष्यमाणवर्णचतुष्कोपशोभितम् ॥ २९ ॥ आजानु०-यावज्जानुनी तावत् तप्त कनकाभं पीतम् , तस्मानाभि यावच्छभ्रम् , तस्मात् कण्ठं यावद् दिवाकरकान्तिवद् रक्तम् , तस्माच्छिरो यावत् कृष्णं स्मरयेत् इत्यतीतार्यायां क्रिया ॥ ३० ॥ . गरुडस्वरूपं° ख ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy