SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [१२] श्रीशिवनागविरचितं श्रीपार्श्वनाथस्तोत्रम् | धरणोरगेन्द्रसुरपति विद्याधरपूजितं जिनं नत्वा । क्षुद्रोपद्रवशमनं तस्यैव हि महास्तवं वक्ष्ये ॥ १ ॥ सुरलोकनाथपूजित ! हर हर हरहासरोषजुष्टमपि । पन्नगविषं महाबल ! शुक्लध्यानानलाक्षेपात् ॥ २ ॥ वृत्तिः । प्रणिपत्य लोकनाथं सर्वज्ञं सर्वसत्त्वहितयुक्तम् । मन्त्रस्तवस्य वृत्तिं वक्ष्ये 'ज्ञानोपदेशेन ॥ येषामन्यगारुडेष्वज्ञानतो ग्राहस्तान् प्रत्याह- 6 , उक्तानि च तत्त्वज्ञै विपतिषु शास्त्रेषु मन्त्रबीजानि । तान्यपि भगवन्मन्त्रस्तवानुसारेण सञ्चिन्त्य ॥ सग्रहः कण्डकं स्तोभो मण्डलं स्तम्भनिर्विषम् । सङ्क्रामं चार्द्धनारीश जैनाहाक्षरयोगतः ॥ भवतीति क्रिया ॥ धरणोरगेन्द्र जिनं नत्वेति क्रिया । किंविशिष्टम् ? धरणश्चासावुरगेन्द्रश्च स च सुरपतयश्च विद्याधराश्च तैः पूजितं पुष्पादिभिरचितम् जिनं नत्वा । यै: ( ये ) क्षुद्रसत्वैः कृता उपद्रवास्तेषां 'शमनं' नाशकं नत्वा तस्यैव महास्तवं ' वक्ष्ये ' कथयिष्ये इत्यर्थः । एतच्चादौ मङ्गलार्थम् ॥१॥ सुरलोक हे सुरलोकानां नाथैः पूजित ! पन्नगविषं हर हर नाशय नाशय । किम्भूतम् ? हरस्य हारो - वासुकिस्तस्य रोषस्तेन 'जुष्टम्' आसेवितम् । हे महाबल । निर्विषभावं नय । कथम् ? शुक्लध्यानमेवाग्निस्तस्य क्षेपेण । अपिशब्दाद् विषमपि लोकानां नैगमाद्यभिगमेन विनाशयेति ॥ " ० ० ज्ञानो क । · ० ० २ र्द्वि क । ३ निर्विषतां ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy