________________
सूरिप्रणीतम् ] श्रीपार्श्वनाथस्तोत्रम् । व्याधिबन्धवधव्यालानलाम्भःसम्भवं भयम् । क्षयं प्रयाति पार्श्वेशनामस्मरणमात्रतः ॥९॥ यथा नादमयो योगी तथा चेत् तन्मयो भवेत् । तदा न दुःकरं किश्चित् कथ्यतेऽनुभवादिदम् ॥ १० ॥ इति श्रीजीरिकापल्लीस्वामी पार्श्वजिनः स्तुतः । श्रीमेरुतुजसूरेः स्तात् सर्वसिद्धिप्रदायकः ॥ ११ ॥ जीरापल्लीप्रभुं पाच पार्श्वयक्षेण सेवितम् । अर्चित धरणेन्द्रेण पद्मावत्या प्रपूजितम् ॥ १२॥ सर्वमन्त्रमयं सर्वकार्यसिद्धिकरं परम् । ध्यायामि हृदयाम्भोजे भूतप्रेतप्रणाशकम् ॥ १३ ॥ श्रीमेरुतुङ्गसूरीन्द्रः श्रीमत्पाचप्रभोः पुरः । ध्यानस्थितिं हृदि ध्यायन् सर्वसिद्धिं लभेद् ध्रुवम् ॥१४॥