SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीचिन्तामणिपार्श्वनाथस्तोत्रम् । ४७ अमुमेव महामन्त्रं लक्षसङ्ख्यमिति स्मरन् । ध्यात्वा ज्ञानमवाप्नोति छित्त्वा कर्माष्टकल्मषम् ॥ २५ ॥ शनैर्मन्त्रगुणोद्भूतमात्मानं सिद्धरूपकम् । चिन्तयन् सर्वगं शान्तं सर्वज्योतिर्मयं शिवम् ॥ २६ ॥ सर्वावयवसम्पूर्ण सर्वलक्षणलक्षितम् । निष्पन्नं पुरुषाकारं रूपस्थं तबुधैर्मतम् ॥ २७ ॥ सर्वं विहाय सालम्बं ध्यानं ध्यायेच केवलम् । आत्मन्येव यदात्मानं तदा मुक्तिर्न चाऽन्यथा ॥ २८ ॥ ज्योतिर्मयं महाबीजममूर्त परमेश्वरम् । सर्वात्मगं तमीशानमनन्तं विश्वव्यापिनम् ॥ २९ ॥ पश्यन्निति निरालम्बं परमात्मानमव्ययम् । शिवसौख्यागतश्चासौ रूपातीतं हि मन्यते ॥ ३० ॥ इत्येवं मोक्षकल्पेन पार्श्वनाथः स्तुतो मया । स जिनः पातु मां देवः पतन्तं भवसागरे ॥ ३१ ॥ इति जिनपतिदिव्यस्तोत्रलक्षान्तरेण परमपदनिमित्तं ज्ञानयोगस्वरूपम् । प्रकथितमिह नूनं पार्श्वनाथप्रसादात् तदखिलमपि धीरैः सर्वदान्वेषणीयम् ॥ ३२॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy