________________
श्रीजैनस्तोत्रसन्दोहे [श्रीजिनपतिएवं भूमण्डले ध्यायेत् सवज्रचतुरस्रकैः । धरावर्णाङ्कितैर्दिक्षु विदिग्भागेषु लाञ्छितम् ॥ १४ ॥ इति चिन्तामणि म चकं त्रैलोक्यपूजितम् । झानबीजं जगद्वन्धं सर्वतत्त्वैकनायकम् ॥ १५॥ मालतीनां सहस्रेस्तु पुष्पैदशभिर्व रैः । विधिनाचाम्लभक्तस्थो मन्त्रराजेन योऽर्चयेत् ॥ १६॥ लेखिन्या हेमजात्या वा लिखित्वेदं सुगन्धिकैः । तानेऽथ वहिकापट्टे भूजे गोरोचनादिकैः ॥ १७ ॥ तस्य सन्तुष्य प्रत्यक्षं पार्श्वनाथो जिनेश्वरः । दर्शयत्यात्मकं रूपं कामं दद्यात् समीहितम् ॥ १८ ॥ अथान्तरात्मशुद्धयर्थं प्रभुं ध्यायेचतुर्विधम् । पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् ॥ १९ ॥ आदौ पवित्रमात्मानं शुद्धमत्यन्तनिर्मलम् । प्रोक्ताभिर्धारणाभिश्च पञ्चभिः पार्थिवादिभिः ॥ २०॥ क्षिपनस्वाहेति पञ्चमहद्भूतैश्च तैरपि । साक्षादिव्यमयं कृत्वा चतुर्धा ध्यानमभ्यसेत् ॥ २१ ॥ अब्जगर्भसमासीनमात्मानं तद्विभोरिव । तत्त्वोपलक्षितं ध्यायेत् तत् पिण्डस्थं प्रकीर्तितम् ॥ २२ ॥ ततोऽस्मिन्निश्चलाभ्यासाद् योगस्तन्मयतां गतः । मन्त्रराजं स्मरेद् वीरस्तत् पदस्थं च संस्मृतम् ॥ २३ ॥ संस्मरेन् मन्त्रराजस्य त्रिशुद्धयाऽष्टोत्तरं शतम् । भुञ्जानोऽप्युपवासस्य प्राप्नोति तपसः फलम् ॥ २४ ॥