SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] श्रीपार्वजिनस्तवनम् । धरणेन्द्रफणच्छत्रालङ्कतो वः श्रियं प्रभुः । दद्यात् पद्मावतीदेव्या समधिष्ठितशासनः ॥ १८ ॥ ध्यायेत् कमलमध्यस्थं श्रीपार्श्व जगदीश्वरम् । ॐ ह्री श्री हः समायुक्तं केवलज्ञानभास्करम् ॥ १९ ॥ पद्मावत्यान्वितं वामे धरणेन्द्रेण दक्षिणे । परितोऽष्टदलस्थेन मन्त्रराजेन संयुतम् ॥ २० ॥ अष्टपत्रस्थितैः पञ्चनमस्कारैस्तथा त्रिभिः । ज्ञानाद्येष्टितं नाथं धर्मार्थकाममोक्षदम् ॥ २१ ॥ सत्षोडशदलारूढं विद्यादेवीभिरन्वितम् । चतुर्विंशतिपत्रस्थं जिनमातृसमावृतम् ॥ २२ ॥ मायावेष्टत्रयाग्रस्थं कौकारसहितं प्रभुम् । नवग्रहावृतं देवं दिक्पालैर्दशभिर्वृतम् ॥ २३ ॥ चतुष्कोणेषु मन्त्राद्य--चतुर्बीजान्वितैर्जिनः । चतुरष्टदशद्वित्रिद्विधाङ्कसंज्ञकैयुतम् ॥ २४ ॥ दिक्षु क्षकारयुक्तेन विदिक्षु लाङ्कितेन च । चतुरस्रेण वज्राङ्कक्षितितत्त्वे प्रतिष्ठितम् ।। २५ ।। श्रीपार्श्वनाथमित्येवं यः समाराधयेजिनम् । तं सर्वपापनिर्मुक्तं भजते श्रीः शुभप्रदा ॥ २६ ॥ जिनेश ! पूजितो भक्त्या संस्तुतः प्रस्तुतोऽथवा । ध्यातस्त्वं यैः क्षणं वापि सिद्भिस्तेषां महोदया ॥ २७ ॥ श्रीपार्श्वमन्त्रराजान्ते चिन्तामणिगुणास्पदम् । शान्तिपुष्टिकरं नित्यं क्षुद्रोपद्रवनाशनम् ॥ २८ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy