SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रोजैनस्तोत्रसन्दोहे [श्रीरत्नकीतिअजः सनातनः शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा क्षेत्राधीशः शुभप्रदः ॥ ७ ॥ साकारश्च निराकारः सकलो निष्कलोऽव्ययः । निर्ममो निर्विकारश्च निर्विकल्पो निरामयः ॥ ८॥ . अमरश्चाजरोऽनन्त एकोऽनङ्गः शिवात्मकः। अलक्ष्यश्चाप्रमेयश्च ध्यानलक्ष्यो निरञ्जनः ॥ ९ ॥ ॐकाराकृतिव्यक्तो व्यक्तरूपस्त्रयीमयः । ब्रह्मद्वयप्रकाशात्मा निर्भयः परमाक्षरः ।। १० ।। दिव्यतेजोमयः शान्तः परामृतमयोऽच्युतः । आद्योऽनाद्यः परेशानः परमेष्टी परः पुमान् ॥ ११ ॥ शुद्धस्फटिकसङ्काशः स्वयम्भूः परमाच्युतः । व्योमाकारस्वरूपश्च लोकालोकावभासकः ॥ १२ ॥ ज्ञानात्मा परमानन्दः प्राणारूढो मनःस्थितिः । मनःसाध्यो मनोध्येयो मनोदृश्यः परापरः ॥ १३ ॥ सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः । भगवान् सर्वतत्त्वेशः शिवश्रीसौख्यदायकः ॥ १४ ॥ इतिश्री पार्श्वनाथस्य सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नामशतमत्र प्रकीर्तितम् ॥ १५ ॥ पवित्रं परमध्येयं परमानन्ददायकम् भुक्तिमुक्तिप्रदं नित्यं पठतो मङ्गलप्रदम् ॥ १६ ॥ श्रीमत्परमकल्याणसिद्धिदः श्रेयसेऽस्तु वः । पार्श्वनाथजिनः श्रीमान् भगवान् परमः शिवः ।। १७ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy