SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] सम्प्रदायश्चात्र सिंहादिभये प्राप्ते मला म्ली म् म्लौ म्लः इति पञ्चाङ्गुलि - पञ्चाक्षराणि पञ्चाङ्गुलिषु न्यस्यैकाग्रमानसैः स्लूँ मन्त्रं परिजप्य सम्मुखं पुष्पादि क्षेप्यम् । सिंहभयं न भवति, अपि प्रत्यनीको विलयमेति । भयहरस्तोत्रम् | 今 २५ तथा परप्रवादभयप्राप्तौ म्लो म्ला म्ली म्लू म्लः कराङ्गन्यासं कृत्वा म्लाँ मन्त्रं परवादजिह्वायां ध्यायमानमेकाग्रमानसैस्तेषां वाचमपहरति । परविद्याविच्छेदे आतुरशरीरे ध्यातं परमन्नानपहरति । तथा शत्रुप्रतिकृतिं नदीउभयतटमृत्तिकया कृत्वा हरितालेन म्ल मन्त्रमालिख्य सलवणं तस्य हृदये निधाय उपरि पाषाणं दत्वा पादप्रहारेण ताडयित्वा धारयेत् सप्तरात्रेण शत्रुं वश्यमानयति ॥ १४ ॥ अधुना गजेन्द्रभयमाह ससिधवलदंतमुसलं दीहकरुल्लाल बुडिढउच्छाहं । महुपिंगनयणजुअलं ससलिलनवजलहरारावं ।। १४ ।। भीमं महागदं अच्चासन्नपि ते न वि गणंति । जे तुम्ह चलणजुअलं मुणिवइ ! तुंगं समल्लीणा ॥ १५ ॥ व्याख्या भीमं महागजेन्द्रमत्यासन्नमपि ते न विगणयन्ति । ते किं० ? ये समालीनाः तव चरणयुगं मुनिपते ! तुङ्गं समाश्रिताः । किंविशिष्टं गजेन्द्रम् ? शशिधवलदन्तमुशलं दीर्घ करोल्ला लबर्द्धितोत्साहम्, मधुपिङ्गनयनयुगलम्, सुसलिलनवजलधरारावम् । इत्यक्षरार्थः । पकारोदरे देवदत्तनामालिख्योपरि ह्रींकारेण वेष्टयेत् । बाह्ये षोडश - `स्वरैरावेष्टयेत्, तद्बाह्य ॐ हाँ हाँ चामुण्डे ! स्वाहा निरन्तरं वेष्टय वलयं पूरयेत् । उपरि मायाबीजं दत्वा यन्त्रं कारयेत् । [ षोडशं यन्त्रम् १६] इदं यन्त्रं कुङ्कुमगोरोचनया भूर्ये संलिख्य धारणीयं हस्तिभयं मुक्त - सीत्कारप्रचुरमपि न भवति ॥ १५ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy