SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] भयहरस्तोत्रम् । खरपवणु अवणदवजालावलिमिलियसयलदुमगहणे । डझंतमुद्रमयवहुभीसणरवभीसणंमि वणे ॥ ६ ॥ जगगुरुणो कमजुअलं निव्वावियसयलतिहुअणाभोअं । जे संभरंति मणुआ न कुणइ जलगो भयं तेसिं ॥ ७ ॥ व्याख्याखरपवनोद्धृतवनदवज्वालावलिमिलितसकलद्रुमगहने । दह्यमानमुग्धमृगवधूभीषणरवभीषणे वने ॥ ये मनुजा जगद्गुरोः श्रीपार्श्वनाथस्य क्रमयुग्मम् । निर्वापितसकलत्रिभुवनाभोगं यो संस्मरन्ति न करोति ज्वलनो भयं तेषाम् ॥ इत्यक्षरार्थः । वृद्धसम्प्रदायश्चात्र-- . प्रथममाग्नेयमण्डलं परिकल्प्य मध्ये श्रीकाराक्षरपूर्वं देवदत्तनामालिख्य तदपि च अकाराक्षरैर्यथेष्टं वेष्टयेत् । उपरि षोडशस्वरैर्वेष्टनीयं, उपरि भागे त्रिगुणमायाबीजमित्येकं यन्त्रम् । द्वादशं यन्त्रम् १२] ___तथा प्रणवोभयसम्पुटं नामालिख्योपरि मायाबीजेनावेष्टय बहिरष्टपत्रे षोडश स्वराणि दत्वा क्ली इत्यक्षरः सर्व सर्वतो वेष्टयित्वा ठकारेण वेष्टनीयम् । उपरि निरन्तरं ब्लू इत्यक्षरं सर्वतो दापयेत् । ईकारेणोज़ वेष्टयित्वा माहेन्द्रमण्डले स्थापनीयम् । [ त्रयोदशं यन्त्रम् १३ ] ___इति यन्त्रद्वयं कुङ्कुमादिद्रव्यैरालिख्य बाहौ धारणीयं प्रदीपनादिभयं रक्षति। ... ॐ ह्रो क्ली बूं ठः ठः स्वाहा । अनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूज नीयम् । इदंमपि च आकर्षणे आग्नेयमण्डलस्थं तानभाजने कुनट्या लिखेत् । वैश्वानरेण तापयेत् । आग्नेयध्यानेन सप्तरात्रेण आकर्षयति ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy