________________
श्री जैनस्तोत्रसन्दोहे [श्रीमानतुङ्ग.
[२] .. श्रीमानतुङ्गमरिप्रणीतं 'नमिऊणा' पराभिधानं
भयहरस्तोत्रम् । नमिऊण पणयसुरगणचूडामणिकिरणरंजिअं मुणिणो । चलणजुअलं महाभयपणासणं संथवं वुच्छं' ॥ १ ॥
वृत्तिः । सिद्धार्थपार्थिवसुतं सिद्धार्थ सिद्धशासनं वीरम् ।
नवा चरमजिनेन्द्रं भयहरवृत्तिं भणिष्यामि ॥ १ ॥ 'नमिऊण. ' नत्वा चरणयुगलम् । कस्य ? 'मुनेः ' पार्श्वनाथस्य । प्रणतसुरगणचूडामणिकिरणरञ्जितम् । महाभयप्रणाशनं संस्तवं वक्ष्ये ।
इत्यक्षरार्थः ।। सम्प्रदायः प्रोच्यते
हुंकारे देवदत्तनामालिख्य बहिरष्टाम्बुजं विधेयम् , दले ॐ श्री पार्श्वनाथाय स्वाहा प्रत्येकं संलिखेत् , बाह्ये षोडशस्वरैर्वष्टयेत् ।
इदं चक्रं कुङ्कुमगोरोचनादिसुरभिद्रव्यैर्यपत्रेषु शुभेऽह्नि संलिख्य कुमारीसूत्रेणावेष्टय सहस्रवारजापः, त्रिकोणकुण्डे होमः क्रियते, सहस्र १२, तदिने उपोषणः क्रियते । तद्दिने दानादिकं दीयते । श्रीपार्श्वनाथबिम्बे पूजा । पश्चात् शुभदिने बाहौ धारणीयम् । महाभयहरं भवति ।
पूजाविधिःसोपारी १२ मुद्रा १,आच्छादन वस्त्र पुष्पादि । [आद्यं यन्त्रमिदम्॥१॥] पुनः द्वासप्ततिशतं यन्त्रं प्रारभ्यते
चतुःस्थाने अजित-शान्ति-पार्श्व-वर्द्धमानाः । ॐ रोहिण्यादिषोडश विद्यादेवी, मध्यकोष्ठके क्षिप ॐ स्वाहा इति, वर्णरुपरि च
१ वोच्छं क-पाठः ।