________________
श्री जैन स्तोत्रसन्दोहे
[ श्रीभद्रबाहु
ಅಲ್ಲಿ
यन्त्रं सूच्यते । अस्य भावमाह - ह्रींनामगर्भितस्य बहिरष्टदलेषु ह्रीं ह्रीं ४ देवदत्तं ४ दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचना दिसुंगन्धपत्रे संलिख्य नारीबाहौ धारणोयम् । वन्ध्या गुर्विणी भवति, मृतवत्सा गर्भ धारयति, काकवन्ध्या प्रसवति, सर्वभूतपिशाचरक्षा (च) भवति (१) | वंकारनामगर्भितस्य बाधे षोडश स्वरान् वेष्टयेत् । ॐ हाँ ह्रीं चामुण्डे ! स्वाहा | आवेष्टय बाधे बलं २ पूरयेत् । एतद् यन्त्रं तु कुङ्कुमादि सुगन्ध - द्रव्यः सूर्जपत्रे संलिख्य बाहाँ धारणीयम् । बालग्रहरक्षा भवति ( २ ) । माया
१०
गुणं नामगर्भितस्य बहिरटदलेषु ह्रीं दे इत्यादि दातव्यम् । एतद् यन्त्रं भूर्जे कुङ्कुमगोरोचनया आलिख्य स्त्रीपुरुषबाहौ धारणीयम् । सौभाग्यं भवति(३) । वकारं नामगर्भितस्य वहिश्चतुदेलेषु वंकारं दातव्यम् । बरिष्टपत्रेषु रकार दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूजपत्रे संलिख्य(ते) क्षुद्रोपद्रवोपसर्गदोषा 'उपशाम्यन्ति । आ (वै? ) रोटयानामविद्या (४) । ह्रींनामभितस्य बहिरष्टपत्रेषु देयं हमल्यू ह्रीं दातव्यम् । एतम् यन्त्रं गोरोचनया भूर्जपत्रे संलिख्य कण्ठे हस्ते वा बद्ध्वा चौरभयं न भवति ( ५ ) । rain नाम विद्या । ह्रींकारनामगर्भितस्य बहिरष्टदलेषु मायाबीजं दातस्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सौभाग्यं भवति ( ६ ) | मायागर्भितस्य बहिरष्टपत्रेषु ह्रींकारं दातव्यम् । एतद् यन्त्र कुङ्कुमगोरोचनया भूर्जपत्रे संलिख्य बाहौ धारणीयम् । सर्वजनप्रियो भवति (७) | मायानामगर्भितस्य बहिरष्टपत्रेषु रकारं दातव्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे विलिख्य (ते) बालानां शान्तिपुष्टिकरी रक्षा भवति (८) | मायावीजं नामगर्भितत्रिगुणं (सं) वेष्टय बहिरष्टपत्रेषु ह्रींकारं दातब्यम् । एतद् यन्त्रं कुङ्कुमगोरोचनया भूर्जपत्रे आलिख्य कण्ठबाहुभ्यां धारयेत् | आयुषः अपश्रितज्वर भूत पिशाच स्कन्दोपस्मारग्रहगृहीतस्य बन्धे तत्क्षणादेव शुभं भवति (९) । ह्रां [ह्रीं ] श्रीं ह्रीं श्रीं ह्रीं नामगर्भितस्य बाह्ये षोडशपत्रेषु ह्रीं श्रीं ठकारं दातव्यम् । एतद् यत्रं कुङ्कुमगोरोचनया भूर्ज - पत्रे विलिख्य (ते) दुर्भगनारीणां सौभाग्यं करोति (१०) ॥ ३ ॥
१ 'उपशमयन्ति' इति ख- पाठः । २ 'विदर्भितस्य' इति ख- पाठः ।