________________
स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् । च. 'क्वचित् परनिपातोऽपि' इति ( वचनात् ) कर्मघनानि तैर्मुक्तम् , निबिडकर्मरहितमित्यर्थः । पुनरपि कथम्भूतम् ? ' विषधरविषनि शं' दुपसर्पविषविनाशकमित्यर्थः । कथम्भूतम् ? 'मङ्गलकल्याणावासं' । मङ्गलमिति कः शब्दार्थः ! उच्यते-'अगि-रगि-लगि-मगी'ति दण्डकधातुरस्य ‘इदितानुसधातोः' इति विहितकुणादिकाडलभूतप्रत्ययान्तस्य अजुबन्धले पे च कूने प्रथमकवचनान्तस्य मङ्गलमिति रूपं भवति । मङ्गयते यथाहितमनेनेति मालम् । मङग्यते-विधिना गम्यते-साध्यते इति यावत् । अथवा मङ्गेति धर्माभिधानम् । ‘रा ला आदाने' इत्यस्य धातोर्मङ्ग उपपदे ' आतोऽनुपसर्गात् क: ' ( कातन्त्रे सू० ५८७, पृ० १९५ ) इति कप्रत्ययान्तस्य ‘आतो लोप इट् कित्रित्ती (?)' अनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमुभ(रूपं?)सिद्धमिति। कल्याणमिति कः शब्दार्थः ? उच्यते-'अण रण' इत्यादिदण्डकधातोः कल्यशब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यपि ' अस्योपधाया ( दीपों वृद्धिर्नामिनामिनिचटसु') ( कातको सू० २२३, पृ० १३६ ) इत्यनेन सूत्रेण अकारदीर्घत्वम् । 'समानः सवर्ण दी, भवति ( परश्च लोपम्' ( कातन सू. २४ पृ. ५ ) इत्यनेन दीर्घ कृते द्वितीयैकव बनान्तस्यैव कल्यागं सिद्धमिति । आवासमिति कः शब्दार्थः ? उच्यते- वस निवासे' इत्यस्य धातोः आशब्दपूर्वकस्य आवासनं आवासः। भावे घनि कृते च समासे 'अस्योपधाया० ' ( कातन्त्रे सू० २२३ ) इत्यनेन सूत्रेण कृते दीर्घ आवासं-निवासं रमणीयं स्थानं श्रीपार्श्वनाथजिनाज्यम् । इति गाथार्थः ॥ १ ॥
अधुना वृद्धसम्प्रदायः- उपसर्गहरं पार्श्व प्रत्येकमष्टयन्त्रमन्त्रदर्शनायाह-क्षकारनामगभिंतस्य बायेषु चतुर्दलेषु पार्श्वनाथ दातव्यम् । दलाग्रेषु हरः ४ इति न्यसेत् । बाह्ये ह हा हि ही हु हु हे है हो हो हं हः वेष्टयेत् , मायाबीजे त्रिगुणं वेष्टिते यन्त्रम् । १
*वंकारनामगभिंतस्य बहिश्चतुर्दलेषु पार्श्वनाथ दातव्यम् । बहिर्हरर . * द्वितीययन्त्रज्ञापकः पाठः पतितो भाति ।