________________
श्रीजैनस्तोत्रसन्दोहे [श्रीभद्रबाहुअस्य व्याख्या-वन्दामि-स्तौमि । के कर्मतापन्नम् ? पार्श्वनाथस्वामिनं अशोकायष्टमहाप्रातिहार्यपूजासमन्वितं चतुस्त्रिंशद् बुद्धातिशयोपेतं त्रयोविंशतितीर्थकरेभ्यः श्रीपार्श्वमाथस्वामिनः समवसरणभूतलं तत्सर्वबाह्य तस्य सम्बन्धापनमनेकं प्राकारत्रयालडकृतगोपुररत्नमयकवसीस(पिशीर्ष)तो. रणविराजितमवनितलानि । योजनहारीणि २प्रसन्नभव्यलोकहृदयानन्दकारीणि प्रधानाऽर्धमागधीभाषाविशेषेण समकालमेव चित्रस्वरूपनरामरादिजन्तुसंशयसन्दोहापोह समन्वाद्यनेन (सम्पादनेन)स्वविहारपवनप्रसरेण ? पञ्चविंशतियोजनप्रमाणं चतुर्दिग्विभागमहीमण्डलमध्ये सर्वव्याधिरजोराशेरपसारणेन चतुर्विधश्रीश्रमणसङ्घदेवनरेन्द्रदानवचारणविद्याधरकिन्नरनारीतियञ्च (क ?)प्रमृतिभिरमृतरसं(मिव) पीयमानं निरन्तरं चित्तालाददानमिति ध्यानमित्युच्यते । पुनरपि कथम्भूतम् ? उपसगेहरमिति । कः शब्दार्थः ? उच्यते-'सृज विसर्ग' (पा. धा० १४१५) इत्यस्य धातोरुपशब्दपूर्वकस्य उपसर्जनं उपसगः । 'भावे' (कातन्त्रे सू० ७५० पृ० २१४ ) घञ्प्रत्ययः ‘नामिनश्चोपधाया लघो: ' ( कातन्त्रेभू० १०६ पृ० ११७ ) इत्यनेन सूत्रेण गुणे कृते पश्चात् 'चजो: कगौ धुवानुबन्धयोः' (कातन्त्र सू० ५४२, पृ० १९०) इत्यनेन सूत्रेण गादेशे कृते उपसग इति सिद्धम् । 'हुञ् हरगे' (पा. धा० ८९९) इत्यस्य धातोः हरणं इरः ‘स्वरबृदृगमिग्रहाम् ( अल ) (कातन्त्रे सू० ५७५ पृ० १९४ ) ' अलप्रत्ययः । 'नाम्यन्तयोर्धातुविकरणयोर्गुणः' (कातन्त्रे सू० ३२, पृ० १८७) हरः इति सिद्धम् । उपसर्गहर-प्रत्यहविध्वंसकमित्यर्थः । पार्श्वमितिशब्देन पार्श्वनामा यक्षः स उच्यते । तत्र पार्श्वनाथतीर्थसमुत्पन्नस्त्रयोविंशत्तिमो यक्षराट् अष्टाचत्वारिंशत्सहस्रयक्षपरिवृतः श्रीपार्श्वनाथपादयुग्मसेवां करोति । पुनः कथम्भूतम् ? ' कर्मघनमुक्तं', क्रियन्ते इति कर्माणि, घनानि च तानि कर्माणि
१ ‘यान्वमने ' इति ख-पाटः । २ 'प्रसरन्त' इति ख पाठः। ३ 'समत्पाद्यनेन ' इति ख-पाठः । ४ एष सूत्रपृष्टाको दोयते १९५२ तमे थैक्रमीयाब्दे हीराचन्द्रनेमिचन्द्रप्रेष्ठिना प्राकाश्यं नीतायाः कातन्त्ररूपमालाया आधारेण ।