________________
ही श्री पार्श्वनाथाय नमः | अनेकजैन पूर्वाचार्यविरचितः
श्रीजैन स्तोत्रसन्दोहः ।
द्वितीयो विभागः ।
*
[ १ ] श्रुतकेवलिश्रीभद्रबाहुस्वामिसूत्रितं श्रीद्विजपार्श्वदेवगणिरचितलघुवृत्त्या विभूषितं उपसर्गहरस्तोत्रम् ।
--- 88520
धरणेन्द्रं नमस्कृत्य, श्रीपार्श्व मुनिपुङ्गवम् । ' उपसर्गहर' स्तोत्र - वृत्तिं वक्ष्ये समासतः ॥ १ ॥
प्रणतसुरासुरललाट विन्यस्तमुकुटश्रेणिसमाश्रितस्य चञ्चच्चूडामणिदम्भोछिप्रमुख रत्नप्रभाप्राग्भार प्रकाशितपादपङ्केरुहस्य श्रीपार्श्वनाथस्य सम्बन्धि मन्त्रस्तोत्रं ' उपसर्गहर 'नामप्रख्यातं पञ्चगाथाप्रमाणम् । तस्य मया कथित - वृद्धोपदेशेन अस्यैव स्तोत्रकल्पानुसारेण चात्मनः स्फुटावबोधनिमित्तं संक्षिप्तावृत्तिर्विधीयते । [ मध्यगाथा ] तस्य चाद्यां गाथामनुक्रमेणाह -
उवसग्गहरं पासं पासं वंदामि कम्मघणमुक्कं । विसहरविसनिन्नासं, मंगलकल्लाणआवासं ॥ १ ॥
·
,
, वयं ' (?) इति ख पाठः ।