________________
समवाप्त्यनन्तरं प्रणीतद्वादशाङ्गगणिपिटकं चतुर्ज्ञानशालिनं सरित इव महार्णवं अपरित्यक्तमर्यादं, व्रततय इव महीरुहं समाश्रितसन्तापव्यापपरिहारक्षमम् , राजहंसराजय इव मानसं अपगतकालुष्यहृदयं, तारका इव हिमगभस्ति मालिनं पियूषरसाश्रिताभिर्गोद्भिः क्षालयन्तं समन्तात्तमोभरं जगतः समशिश्रमन्नक्षीणमहानसीप्रभृतयः सहर्षमनावाप्त स्थानान्तराः अनेका लब्धयो भवन्तम् ।
निवसता पञ्चाशद् वत्सराणि गृहवासं, निरन्तरं कारयता यज्ञकर्माणि, सर्वज्ञाभिमानेन भवार्णवपोतायमानं समासादितं वैराग्यम् , त्रिंशदब्दानि परिपालयता छद्मस्थपर्यायं व्यधायिं नि छन्मभक्त्या श्रीवीरजिनचरणसेवा, विहिता च न्यासीकृताङ्गष्ठक्षीरकारितपारणा पञ्चदशशतीव्युत्तरा तापसानां स्फुरत्केवलज्ञानावबोधा तत्क्षणेन, शिवंगते भगवति व्युच्छिन्ने प्रेमबन्धने स्वयंवरा सभागता द्वादश समाः सनाथीकृता विषादेन त्रिभुवनविवरवर्ति चराचरं वस्तुजातं करतलगतामलकवद् दर्शयन्ती अप्रतिघाता अनन्ता निरावरणा केवलज्ञानलक्ष्मीर्भवता । .. परिस्फुरत्किरीटकोटिनिष्टङ्कितविविधभास्वरत्नराशिविनाशितान्ध तमसा देह प्रभाधोतितदिक्चक्रवाला भक्तिभरप्रहमानसा नमस्कुर्वते भवते नर-नाम-विद्याधरा-ऽसुर-व्यन्तर-ज्योतिष्क-वैमानिकानामधिपतयः सबहुमानम् ।
भक्तः प्रसरमागता विमलावबोधाच्छोदनिर्भरा प्रत्यक्षानुमानप्रमाण विराजिततटद्वया दुष्कर्मदमोन्मूलनक्षमा अस्ताघस्याद्वादावर्ताता नयगमभङ्गोत्तुङ्गतरङ्गमालासमाकुला प्रवीणमुनिजनकर्णधारपटुतर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org