SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सञ्चार्यमाणप्रतिभाप्रवहणा भव्यजनमलिनमनो विमल तामापादयन्ती स्रोतस्विनी द्वादशाङ्गी प्रक्षालयति प्राणिनां पापपङ्क, विशोधयतितरामात्मानं विवर्द्धयति पुण्याङ्कुराणि, विनाशयति त्रिविधमपितापमिति कथने नास्त्येव कथमपि कथंकथिकताया अवकाशः । प्रतिदिनं प्रणवमायाबीजपूर्वकं नमोऽन्तं भगवतो भवतो नाममन्नाक्षरस्मरणकारिणां शरीरिणां न प्ररोहन्ति व्याघयः, प्रभवन्ति नाधयः, नोहसन्ति नागोरगमृगेन्द्रारण्य वारिधिक्षुद्रदेवासुरप्रभृतीनां भयानि, समुल्लसन्ति सुखानि, वृद्धिमृच्छति कुटुम्बम् समेधते धनम्, किं बहुना ? सफलता मायान्ति सर्वेऽपि प्रियासुतारोग्यसम्पदादिका मनोऽभिलषिता मनोरथा ऐयिका पारत्रिकाश्च । " निवसन्ति भवति क्षान्त्यार्जवमादेवप्रभृतयो यतिधर्माः, गाम्भीयदार्यमुखा स्तुहिनगिरिसुधांशुदिग्दन्तिशक्रगजगौरीशरूप्याचलक्षीरोदधिफेनप्रसरावदाताः सङ्खातीता गुणाः, तपः सम्पदः, क्षीराश्रवादयस्त्रिभुवनाश्चर्यजनका अनेका महत्यो लब्धयक्ष । इत्याद्यनेक गुणगणाकृष्ठचेता भवच्छिष्यसन्ततिसमुद्भूतैरेव महद्भिराचार्यादित्रिर्विद्वद्भिः प्रणीतानामनेकेशां चित्रश्लेषयमकालङ्कारालङ्कतानां विविधरसनिकेतनानां स्तोत्राणां सुमहान् सङ्ग्रहोऽयं जैनस्तोत्रसमुच्चयप्रथम विभागरूपः समर्पयाम्यसावहं प्रमोदभरमेदुरो भवत एव केवलज्ञानप्रदानदक्षे करकिसलये नागजी भूधरनी पोळ, अमदावाद. Jain Education International सङ्घकिङ्करः } साराभाई मणीलाल नवाब. For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy