________________
प्रस्तावना।
(५५)
वर्षे प्रस्तुतसूरिविरचितानि प्रशस्तिरूपाणि वस्तुपालस्तुतिकाव्यानि गिरनारगिरौ शिलालेखे वर्तन्ते । मन्त्रीश्वरवस्तुपालप्रार्थनयाऽलङ्कारमहोदधिविरचयिता नरेन्द्रप्रभसूरिरस्य शिष्यः ।
नरचन्द्रटिप्पनकम् , प्रश्नचतुर्विंशतिका, प्रश्नशतकमित्येतेषां प्रणेताऽयमेव परो वेति न निर्णयः ।
(२६) श्रीदेवेन्द्रमरिः। श्रीचित्रकूट (चीतोड ) महीपतिप्रदत्त 'हीरला ' बिरुदमृतां विश्वविश्वविख्यातयशसां श्रीजगचन्द्रसूरीणां विनेयवर्गप्रानणीः सूरिवयोऽसौ । श्रीमुनिसुन्दरसूरिप्रणीतगुर्वावलीलेखानुसारेण विक्रमीयसप्तविंशत्यधिकत्रयोदशशतमितेऽन्देऽस्य स्वर्गारोहणं, तेन निर्णीयते निर्विरोधं सत्तासमयोऽस्य विक्रमीयत्रयोदशशताब्दीरूप एव ।
____ग्रन्थसन्दर्भस्त्वस्य. भाष्यत्रयम् (चैत्यवंदनभाष्यं गा. ६३, गुरुवन्दनभाष्यं गा.
४१, प्रत्याख्यानभाष्यं गा. ४८), सिद्धपञ्चाशिका (गा. ५०), सिद्धदण्डिका (गा. १३), नव्यकर्मग्रन्थपञ्चकं (गा. . ), बन्दारुवृत्तिः, 'चत्तारिअट्ठ' स्तवनं, वृद्धचतुःशरणग्रन्थः (गा. ११५), सम्यक्त्वस्वरूपस्तवः (गा. २५), चैत्यप्रतिकृतिस्तवनं सावचूरिकम् (गा. . ), शाश्वतबिम्बसङ्ख्यास्तवनम् (गा. २४), श्राद्धदिनकृत्यम् (गा. ३४४ ), उपमितिभवप्रपञ्चासारोद्धारः (गा. ५७०), धर्मरत्नप्रकरणवृत्तिः (ग्रं. ९६८२), नवपदप्रकरणवृत्तिः (नं. ९०००), वीतरागविज्ञप्तिः (ग्रं. १८४८), उपदेशकुलकम् , दानादिकुलकचतुष्कम् , (गा. ) प्रणिधानकुलकम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org