________________
(५०)
जनस्तोत्रसन्दोहे |
एकदिन प्रगीत महाप्रबन्धेन षड्भाषाकविचक्रवर्तिनानेन कलिकालसर्वज्ञश्री हेमचन्द्रसूरिप्रणीतं द्विसन्धानमहाकाव्यं समशोधि ।' उक्तंच तत्प्रशस्तौ
एकाहनिष्पन्नमहाप्रबन्धः श्री सिद्धराजप्रतिपन्नबन्धुः । श्री पालनामा कविचक्रवर्ती सुधीरमुं शोधितवान् प्रबन्धम् ॥ प्राग्वाटान्वयवंशमौक्तिकमणेः श्रीलक्ष्मणस्यात्मजः श्री श्रीपालकवीन्द्रबंन्धुरमलप्रज्ञालतामण्डपः । श्रीनाभेयजिनांह्विपद्ममधुपस्त्यागाद्भुतैः शोभितः श्रीमान् शोभित एव सद्यविभवः स्वौणकमासेदिवान् || इत्यनेन श्रीजिनविजय सम्पादितप्राचीन जैनलेख संग्रहद्वितीयविभागान्तर्गत (२७१) लेखालक्ष्मणाख्योऽस्य पितेति ध्वन्यते ।
66
श्री सोमप्रभाचार्येण सुमतिनाथचरित्र - कुमारपालप्रतिबोधयो रचना एतच्छ्री पालकविसूनोः कुमारपाल भूपालप्रीतिपात्रस्य सिद्धेपालकवेर्व सतावकारोति प्रतिपाद्यते तेनैव सूरिणा निज कृतिप्रान्ते— " सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमतामुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकार करुमा सौजन्यसत्यक्षमा-दाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनैर्मन्यते ॥ तस्य पौषधशालायां पुरेsहिलपाटके ।
१ तनुजन्मनाऽस्य विजयपालेन व्यरचि द्रोपरीस्वयंवरनाटकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org