SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (४९) . परन्तु सत्यहरिश्चन्द्र-निर्भयभीमव्यायोगादिषु यथाऽस्य स्वातन्त्र्यमुद्राऽस्ति तथा षोडशिकास्तवादावपि कचित् कचिद् दृश्यते । तथाहि स्वतन्त्रो देव ! भूयासं सारमेयोऽपि वर्त्मनि । मा स्म भूवं परायत्तस्त्रिलोकस्यापि नायकः ॥ स्वातन्त्रयश्रीपवित्राय परमब्रह्ममूर्तये । साधिताशेषसाध्याय नमो भगवतेऽर्हते ॥ अपरश्च-प्रभावकचरित्रादौ श्रीरामचन्द्रसूरेदृष्टिविनाशो व्याववर्णितोऽस्ति, स एव ध्वन्यते स्वामिन्ननन्तफलकल्पतरोऽभिरामचन्द्रावदातचरित्राश्चितविश्वचक्र !! शक्रस्तुताहिसरसीरुह ! दुःस्थसाथै देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ इत्यादिपयैः षोडशिकास्तोत्रादिष्वपि । इत्येताभ्यां कारणाभ्यां प्रबन्धशतप्रणेतुः श्रीरामचन्द्रस्यैवाऽमनि कृतिरूपाणीति मे मतम् ॥ ' (२२) श्रीपालकविः. श्रीजयसिंहनरेन्द्रेण कवीन्द्रः, भ्रातेति च व्याहृतः प्राग्वाटज्ञातीयः श्रावकपुङ्गवोऽयम् यदाहुः श्रीसोमप्रभाचार्याः सुमतिनायचरित्र-कुमारपालप्रतिबोधप्रशस्तौ- .. प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी ..वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । 'यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः .. श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy