SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना (४३) mm ummm वर्द्धमानगणिः अयमपि पूर्वोक्तं प्रतिबोधग्रन्थमश्रौषीत् । कुमारविहारप्रशस्तिकाव्यव्याख्यानादिकमनेन निर्ममे । देवचन्द्रमुनिः चन्द्रलेखाविजयप्रकरणमनेन प्रणीतम् । . यशश्चन्द्रगणिः वि. सं. १३६१ वर्षे श्रीमेरुतुङ्गमूरिणा विरचिते प्रबन्धचिन्तामणौ ( सं. ४, पृ. २०६, २३३ ) एतस्य नामोपलभ्यते । उदयचन्द्रः अस्योपदेशाद् देवेन्द्रमूरिशिष्यो मनीषी कनकप्रभो हेमन्याससारं समुद्धरत् । १ हेमचन्द्रसूरिशिष्येण वर्द्धमानगणिना कुमारविहारप्रशस्तौ काव्येऽमुध्मिन् पूर्व षडथै कृते.पि कौतुकात् षोडशोत्तरं शतं व्याख्यानां चक्रे । P. P. ३, ३१६ एतस्य मुद्रणाऱ्या पुस्तिका मया कृताऽस्ति । २ भूपालमौलिमाणिक्यमालालालितशासनः । दर्शनषट्कनिस्तन्द्रो हेमचन्द्रो मुनीश्वरः ॥ तेषामुदयचन्द्रोऽस्ति शिष्यः संख्यावतां वरः । यावज्जीवमभूद् यस्य व्याख्या ज्ञानामृतप्रपा ॥ तस्योपदेशाद् देवेन्द्रसूरिशिष्यलबो व्यधोत् । न्याससारसमुद्धारं मनीषी कनकप्रभः ॥ -हैमशब्दानुशासनबृहन्न्यासप्रान्ते। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy