SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (४२) जैनस्तोत्रसन्दोहे अनेकार्थसंग्रहः निघण्टुः ( सशेषः ) .. श्रीमतः शिष्यादिपरिचयःमहेन्द्रमूरिः-- अनेन मूरिणानेकार्थकैरवाकरकौमुदीसज्ञिता । हैमानेकार्थसंग्रह - टीका गुरुनाग्नैव प्रतिष्ठिता। श्रीसोमप्रभाचार्येण वि. सं. १२४१ वर्षे समापितो जिनधर्मप्रतिबोधापरनाम कुमारपालप्रतिबोधग्रन्थश्चाश्रावि । गुणचन्द्रगणिः अनेन साकं कविरामचन्द्रेणस्वोपज्ञद्रव्यालङ्कारवृत्ति-नाट्यदर्पणविवृत्ती विहिते । एतेनाऽपि श्रीसोमप्रभाचार्यप्रणीतः कुमारपाल(जिनधर्म ) प्रतिबोधः श्रुत आसीत् । रामचन्द्रसूरिः सरिवरोऽयं श्रीहेमचन्द्राचार्येण स्वपदप्रतिष्ठितो गुणाधिकः शिष्यः । उपर्युक्तस्य श्रीगुणचन्द्रगणेः परमप्रीतिपात्रं समविद्यागुणशीलः । विशेषपरिचितिं तु दास्यामि यथास्थानमग्रतोऽस्य (पृ.४४)। १ श्रीहेमसूरिशिष्येण श्रीमहेन्द्रसूरिणा । भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥ -अनेकार्थकैरवाकरकौमुदी । २-३ शशिजलधिसूर्यवर्षे (१२४२) शुचिमासे रविदिने सिताष्टम्याम् । जिनधर्मप्रतिबोधः क्लुप्तोऽयं गूर्जरेन्द्रपुरे। श्रीहेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्धमानगुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ -कुमारपालप्रतिबोधप्रशस्तिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy