________________
(४४ )
बालचन्द्र:
अयं श्रीरामचन्द्रमूरेः प्रतिस्पर्धी, पूर्वमजयपालनरेशस्य मित्रमासीत् । ' स्नातस्याप्रतिमस्य' इत्यादिका प्रसिद्धा स्तुतिरेतस्य कृतिरूपेति प्रघोषः ।
जैनस्तोत्रसन्दोहे
इतरेऽप्यविदिता अनेके सम्भवेयुः श्रीमतः शिष्याः इतिहासरसिकसज्जनानां प्रयत्नेन सुविदिता भविष्यन्ति । (२१) श्रीरामचन्द्रसूरि :
असौ श्रीहेमचन्द्राचार्यशिष्यः । बाल्येऽपि शीघ्रकवित्वशतिं परीक्ष्य प्रसन्नेन श्रीसिद्धराज जयसिंहदेवेनाऽस्मै 'कविकटारमल्ल' बिरुदं सर्वसमक्षमुपदीकृतमित्यवसीयते वि. सं. १५१७ वर्षे भोजप्रबन्धादिप्रणेतुः श्रोरत्नमन्दिरगणेरुपदेशतरङ्गिण्यन्तर्गतो लेखतः" तथा रैवतोद्धारकश्रीसज्जनदण्डनायक - २४ प्रासादकारक मं० आभड - देवगुरुभक्त मं० आलिग मं० शान्तू ९९ लक्षहाटकस्वामी श्री० छाडा - षट्कोटि द्रव्यस्वामि कुबेरदत्ताद - कोटिध्वजाष्टदशशतव्यवहारिशाकम्भरीपति-अर्णोराज- लाटाधिपगजमांगूझालकप्रभृति७२ राणकपरिकरितश्रीजयसिंहदेवेन ग्रीष्मे क्रीडोद्यानं गतेन मार्गेमिलितः श्रीरामचन्द्रक्षुल्लः पृष्टः कथं ग्रीष्मे दिवसा गुरुतरा: ? । रामचन्द्रः प्राह
देव ! श्रीगिरिदुर्गमल्ल ! भवतो दिग्जैत्र यात्रोत्सवे धावद्वीरतुरङ्ग निष्ठुरखुरक्षुण्णक्षमामण्डली ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org