________________
प्रस्तावना।
(३९)
डमन्त्रिप्रतिबोधकाः कोरण्टके प्रतिष्ठाकारकाश्च ते समन्तभद्रसूरिशिष्या वृद्धदेवमूरयो भिन्ना एतस्मात् । उपदेशतरङ्गिण्यां संवदकेषु लेखकप्रमादस्ततो नाऽत्र दोषः ।।
(२०) श्रीहेमचन्द्राचार्यःगूर्ज रेश्वरश्रीकुमारपालभूपालप्रतिबोधकः सूरिपुरन्दरोऽसौ । धन्धुक्कनिवासी मौढ ज्ञातियो वणिक् श्रेष्ठिवरश्वाचिगोऽस्य पिता । शीलादिगुणवाहिनी पाहिनी माता। पूर्णतल्लगच्छीयाः श्रीदेवचन्द्रसूरयः श्रीमतो गुरवः । ____ अत्रभवतः सं. ११४५ वर्षे जन्म, सं. ११५० वर्षे दीक्षा सं. ११६६ सूरिपदम् सं. १२२९ वर्षे स्वर्गमनं च बभूव । विशेषचरित्रजिज्ञासुभिर्विलोकनीयाः प्रभावकचरित्र-चतुर्विंशतिप्रबन्धप्रभृतयो ग्रन्थाः ।
श्री जिनदत्तमूरि-वादिदेवमूरि-श्रीहेमचन्द्राचार्याणां जन्मदीक्षासमय-स्थलादिविषयकं समवक्तव्यताकं कोष्ठकं प्रकटीकृतं गान्धीत्युपाढेन पं. लालचन्द्रेण गायकवाडोरीयन्टलइन्स्टीटयुटमुद्रापिताs पभ्रंशकाव्यत्रयीभूमिकायां तच दीयतेऽत्र पुनः सोपयोगित्वाद् वाचकमनोविनोदाय
१ शरवेदेश्वरे (११४५) वर्षे कार्तिके पूर्णिमानिशि । जन्माभवत् प्रभोव्योमबाणशम्भौ (११५०) व्रतं तथा ॥८४८॥ रसंषट्रेश्वरे (११६६) सूरिप्रतिष्ठा समजायत । नन्दद्वयरवौ (१२२९) वर्षेऽवसानमभवत् प्रभोः ॥८४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org