SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीगोडी पार्श्वजिनस्तवनम् । ( ४०३ ) भृशं फेनायन्ते हतमदनसेना गुणगणाः तवोच्चैः कैलाशद्यतिमदभिदायां सुनिपुणाः गुणास्ते ते हंसा त्रिजगदवतंसायित ! चिरं भजंते ये ध्यानामृतरसभृतं मानसमदः । भिदां तन्वन्त्येते बत परयशोमौक्तिकगणैः कृताहाराः स्फारा न किमु पयसोर्दोषगुणयोः ॥ ५७ ॥ 9 .... Jain Education International .... .... .... विधिः कारं कारं गणयति नु रेखास्तव गुणान् सुधाबिन्दोरिन्दोर्वियति विततास्तारकमिषाः । प्रतिश्यामायामान् व्रजति न विलासोऽस्य निधनं ततो रिक्ते चन्द्रे. पुनरपि निधत्तेऽमृतभरम् महो राहोर्नाहोम लिनमलिपङ्क्तिश्च धवला बलाकामाकारा द्विकवृकपिकानामनुसृताः । न शैलाः कैलाशा इव किमभवन्नञ्जनमुखा भृशं विश्वं विश्वं शिसयति भवत्कीर्तिनिकरे ॥ ६४ ॥ यशोभिस्तेऽशोभि त्रिजगदतिशुभ्रैर्भृशमित स्तिथिः सा का राका तिथिरिह न या हन्त ! भवति । कुहूर्नाम्नैवातः पिकवदनमातत्यशरणं श्रिता साक्षादेषा परवदनवेषा विलसति यशोदुग्धाम्भोधौ भवति तब मीनाकृति नभो ध्रुवं स्फारास्तारा जलकणतुलामीश ! दधते । १ अतः परं विशीर्णानि पद्यानि पञ्च । For Personal & Private Use Only ॥५६॥ ॥ ६३ ॥ ॥ ६५ ॥ www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy