SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ( ३९६ ) जैन स्तोत्रसन्दोहे | स्रजं भक्त्या जन्तुर्घनसुमनसां सौरभमय न यः कण्ठे धत्ते तव भवभयार्तिक्षयकृतः । कथं प्रत्याभ्येत्य त्रिदशतरुपुष्पस्रजमहो शुभायत्तां धत्तां त्रिदशतरुणी तस्य हृदये ! ॥ १८ ॥ पिता त्वं बन्धुस्त्वं त्वमिह नयनं त्वं मम गतिस्त्वमेवासि त्राता त्वमसि च नियन्ता नतनृपः । भजे नान्यं त्वत्तो जगति भगवन् ! दैवतधिया दयस्वातः प्रीतः प्रतिदिनमनन्त स्तुतिसृजम् ॥ १९ ॥ जगज्जैत्रैविस्तव गुणगणैयों निजमनः [ श्रीयशोविजय स्थिरीकृत्याकृत्याद् भृशमुपरतो ध्यायति यतिः । इहाप्यस्योदेति प्रशमलसदन्तः करणिकासमप्रेमस्थेमप्रसरजयिनी मोक्षकणिका फणैः पृथ्वीं पृथ्वीं कथमिह फर्णीद्रः सुमृदुभिर्हरिन्नागा रागात् कथमतिभरक्लान्ततनवः । क्व कूर्मो वा धत्तां निभृततनुरेको जलचरः पटुर्धर्मः शर्मप्रभव ! तव तां धर्तुमखिलाम् ॥ २१ ॥ ज्वलन् ज्वालाजालैर्ज्वलनजनितैर्देव ! भवता बहिः कृष्टः काष्ठात् कमउहठपूरैः सह दितात् । नमस्कारैः स्फारैर्दलितदुरितः सद्गुणफणी किमद्यापि प्रापि प्रथितयशसा नेन्द्रपदवीम् ॥ २२ ॥ - महारम्भा दम्भाः शठकमठपञ्चाग्निजनितास्त्वया दीर्णाः शीर्णाखिलदुरितकौतूहलकृता । Jain Education International ॥ २० ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy