SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तोत्रम्। ( ३९५ ) प्रसर्पदानाम्भःसुभगकरटानां करटिनां घटा तस्य द्वारि स्फुरति सुभटानामपि न किम् ? ॥१२॥ . महालोभक्षोभव्यसनरसिकं चेतसि यदि स्फुरेद् वारं वारं कृतभवनिकारं त्वदभिधम् । तमोहासादासादितततविकासाय मुनये तदा मायाकाया न खलु निखिला द्रुह्यति निशा ॥१३॥ स्थलीषु प्रभ्रष्टान् शिवपथपथः सङ्घभविनो विना त्वामन्यः कः पथि नयति दीपानुकृतिभिः । प्रभावादुद्भूतस्तव शुचिरितः कीर्तिनिकरः करोत्यच्छं स्वेच्छं कलिमलिनमन्हाय भुवनम् ॥ १४ ॥ विलोलैः कल्लोलैर्जवनपवनैर्दुर्दिनशता हतोद्योतैः पोतैनिकटविकटोद्यज्जलचरैः ।। जनानां भीतानां त्वयि परिणता भक्तिरवना (नौ) जगद्वन्धो ! सिन्धोर्नयति विलयं कष्टमखिलम् ॥ १५ ॥ अटव्यामेकाकी नतनिखिलनाकीश ! पतितो वृतायां कीनाशैरयि ! (रिव)हरिकरिव्याघ्रनिकरः । जनस्तत्पूतात्मा भवन इव भीतिं न लभते मनश्चेत् त्वन्नामस्मरणकरणोत्कं वितनुते ॥ १६ ॥ जपन्तस्त्वन्नाम प्रतिदशमि मन्त्राक्षरमयं दशानामाशानां श्रियमुपलभन्ते कृतधियः । दशाप्याचाम्लैस्तु त्रिदशतरवः सन्निदधते - कृतैः किं वा न स्याद् दशनिरयवासार्तिविलयः ॥ १७ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy