SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम्। ( ३९७ ) किमाश्चर्यं वयं तदिह निहताः किं न रविणा विनायासं व्यासं रजनिषु गता ध्वान्तनिकराः ॥ २३ ॥ ज्वलत्काष्ठक्रोडात् फणिपतिसमाकर्षणभवं __ यशः कर्षत्युच्चैस्तव परयशःकारणगुणात् । इदं चित्रं काष्ठाद् बहिरपसृताज्जातमहितो न यत् स्पष्टं काष्ठापसरणरसं हन्त ! वहति ॥२४ ॥ द्विषत्तापव्यापप्रथनपटुभिर्मोहमथनैः प्रतापरीक्रान्तस्तव न कमठः कान्तिमधृत । महोभिः सूरस्य प्रथितरुचिपूरस्य दलित___ द्युतिस्तोमः सोमः श्रयति किमु शोभालवमपि ? ॥ २५ ॥ विलासः पद्मानां भवति तमसामप्युपशमः प्रलीयन्ते दोषा व्रजति भवपङ्कोऽपि विलयम् । प्रकाशः प्रोन्मीलेत् तव जिन ! जगज्जित्वरगुण ! प्रतापानां भानोरिव जगदभिव्याप्तिसमये ॥२६॥ किमु स्पष्टैः कष्टैः किमु परिणतैरासनशतैः __ प्रयोगा योगानां नहि भववियोगाय पटवः । त्वदाज्ञा चेदेका शिरसि न विवेकादुपहृता विना वीर्य कार्य न भवति नृणां भेषजगणैः ॥२७॥ नराः शीर्षे शेषामिव तव विशेषार्थविदुषः शतै राज्ञामाज्ञामिह दधति ये देव ! महिताम् । · अविश्रामैस्तेषामहमहमिकायातनृपति प्रणामरुद्दामैः समुदयति कीर्तिर्दिशि दिशि ॥२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy