SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ( ३९०) जैनस्तोत्रसन्दोहे [श्रीयशोविजय विधाय मूर्धानमधस्तपस्यया किमुच्चमन्त्रव्रतशीलशीलनैः । श्रुतं न शङ्केश्वरनाम विश्रुतं किमत्र विद्याव्रजबीजमुज्ज्वलम् ॥९३॥ मदाम्बुलुभ्यद्भमरारवेण प्रवृद्धरोषं गिरितुङ्गकायम् । अश्रान्तमान्दोलितकर्णतालं प्रोन्मूलयन्तं विपिनं विशालम् ॥९॥ करप्रहारैः कुलिशानुकारैः सन्त्रासयन्तं बहुवन्यजन्तून् । अभ्यापतन्तं द्विरदं निरीक्ष्य भियं जनास्त्वच्छरणा न यान्ति ॥९५॥. द्वाभ्यां युग्मम् ॥ विदीर्णदन्तिबजकुम्भपीठव्यक्तक्षरद्रक्तरसप्रसक्तम् । गिरिप्रतिध्वानकरैः प्रणादैविध्वंसयन्तं करिणां विनोदम् ॥९६॥ अतुच्छपुच्छस्वनवारबिभ्यद्वराहमातङ्गचमूरुयूथम् । मृगारिमुवीक्ष्य न शङ्कते ते नाम स्मरन् नाथ ! नरो नितान्तम्॥९॥ द्वाभ्यां युग्मम् । तमालहिन्तालरसालतालविशालसालबजदाहधूमैः । दिशः समस्ता मलिना वितन्वन् दहन्निवानं प्रसृतैः स्फुलिङ्गैः।।९८॥ मिथो मिलज्जालजटालमूर्तिर्दवानलो वायुजवात् करालः । त्वदीयनामस्मरणैकमन्त्राद् जलायते विश्वजनाभिवन्द्य ! ॥९९॥ युग्मम् ॥ स्फुरत्फणाडम्बरभीमकायः फूत्कारभारैरुदयविषायः। उल्लालयन क्रूरकृतान्तदंष्ट्राद्वयाभजिह्वायुगलं प्रकोपात् ॥१०॥ पापाणुभिः किं घटितः पयोदश्यामः फणीन्द्रस्तव नाममन्त्रात् । भृशं विशंकं व्रजतां समीपे न भीतिलेशं तनुते नराणाम् ॥१०॥ युग्मम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy