SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीशङ्खश्वरपार्श्वजिनस्तवनम् ( ३९१ ) भटासिभिन्नद्विपकुम्भनिर्यन्मुक्ताफलैस्तारकिताभ्रदेशे । धनुर्विमुक्तस्तव काण्डवृन्दैः प्रदर्शिताकाण्डतडिद्विलासे ॥१०२॥ रणाङ्गणे धीरमृगारिनादैः पलायमानाखिलभीरुलोके । जयं लभन्ते मनुजास्त्वदीयपदाब्ज सेवाप्रथितप्रसादाः || १०३ ॥ युग्मम् ॥ उत्तालभूयः पवमानवेगादुल्लोलकल्लोलसहस्रभीष्मे । समुच्छलत्कच्छपनक्रचक्रसङ्घट्टना भगुरयानपात्रे ॥ १०४ ॥ पतन्महाशैलशिलारवेण गलत्प्रमीलीकृतपद्मनाभे । श्रियं लभन्ते भवतः प्रभावात् सांयात्रिका वीतभियः पयोधौ ॥ १०५॥ युग्मम् ॥ जलोदरा दत्तदरा न जातु ज्वराः प्रशान्तप्रसरा भवन्ति । न पुष्टतां कुष्टरुजः प्रमेहा विदीर्णदेहा न समुद्भव ( वह)न्ति ॥ १०६॥ भगन्दरः प्राणहरः कथं स्यात् क्षणाद् व्रणानां क्षयमेति पीडा । ब्रूमः किमन्यत् तव नाममन्त्राद् रुजः समस्ता अपि यान्ति नाशम् युग्मम् ॥ आपादकण्ठार्पितशृङ्खलौघा वणैर्विशीर्णाः प्रतिगात्र देशम् । व्यथावशेन क्षणमप्यशक्ता उच्छासमुल्लासयितुं समन्तात् ॥ १०८ ॥ दशामवाप्ता भृशशोचनीयां विमुक्तरागा निजजीवितेऽपि । नरा जपन्तस्तव नाममन्त्रं क्षणाद् गलबन्धभया भवन्ति ॥ १०९ ॥ युग्मम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy