SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीशङ्खेश्वरपार्श्वजिनस्तोत्रम् | ( ३८९ ) ॥८२॥ प्रकाममन्त:करणेषु देहिनां वितन्वती धर्मसमृद्धिमुच्चकैः । चिरं हरन्ती बहु पङ्करं सरस्वती ते प्रथते जगद्धिता स्फुरन्ति सर्वे तव दर्शने नयाः पृथग् नयेषु प्रथते न तत् पुनः । कणा न राशौ किमु कुर्वते स्थितिं कणेषु राशिस्तु पृथग् न वर्तते ॥ स्वतः प्रवृत्तैर्जिन ! दर्शनस्य ते मतान्तरैश्चेत् क्रियते पराक्रिया । तदा स्फुलिङ्गैमहतो हविर्भुजः कथं न तेजः प्रसरत् पिधीयते ॥ ८४ ॥ स्फुरन्नयावर्तमभङ्गभङ्गतरङ्गमुद्यत्पदरत्नपूर्णम् ! ॥८५॥ ॥८६॥ महानुयोगहूदिनीनिपातं भजामि ते शासनरत्नराशिम् तवोपदेशं समवाप्य यस्माद् विलीनमोहाः सुखिनो भवामः । नित्यं तमोराहुसुदर्शनाय नमोऽस्तु तस्मै तव दर्शनाय न नाम हिंसाकलुषत्वमुच्चैः श्रुतं न चानाप्तविनिर्मितत्वम् । परिग्रहो नो नियमोज्झितानामतो न दोषस्तव दर्शनेऽस्ति ॥ ८७॥ 'महाजनो येन गतः स पन्था' इति प्रसिद्धं वचनं मुनीनाम् । महाजनत्वं च महाव्रतानामतस्तदिष्टं हि हितं मतं ते 11 26 11 समप्रवेदोपगमो न केषुचित् कचित् त्वसौ बुद्धसुतेऽपि वृत्तिमान् । अशेषतात्पर्यमति प्रसञ्जकं ततोऽपुनर्बन्धकतैव शिष्टता ॥ ८९ ॥ न वासनायाः परिपाकमन्तरा नृणां जडे तादृशतेति सौगताः । न कापिलास्तु प्रकृतेरधिक्रियाक्षयं तथा भव्यतयेति ते गिरः ॥ ९० ॥ इहापुनर्बन्धकभावमन्तरा बिभर्ति वागी तव कर्णशूलताम् । विना किमारोग्यमतिं ज्वरोदये न याति मिष्टान्नततिर्विषात्मताम् ॥ ९१ ॥ शास्त्राणि हिंसाद्यभिधायकानि यदि प्रमाणत्वकथां भजन्ते । हविर्भुजः किं न तदातितीव्राः पीयूषसाधर्म्यमवाप्नुवन्ति ॥ ९२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy