________________
जैनस्तोवसन्दोहे
[११० ]
श्रीगिरनारमंडन - नेमिजिनस्तवनम् ।
( ३५२ )
श्रीउजयन्तशैलेशतुङ्ग श्रृङ्गविभूषण !
श्रीमन्नेमिजिनाधीश ! जयश्रीकलमंदिर ! ॥ १ ॥
दृष्टः पुण्येन येन त्वं दुर्लभोऽपि मया भवे । दर्शनेन स्वकीयेन तत् पुषाण ममाधुना || २ || कन्दर्पमत्तमातङ्गघातसिंहोपमाय ते ।
नमोऽस्तु जगदानन्दकारिणेऽघनिवारिणे ॥ ३ ॥ त्वं माता त्वं पिता देव ! त्वं त्राता जगदीश ! मे । भवाम्भोधौ पतन्तं मां पाहि पाहि कृपानिधे ! ॥ ४ ॥ सृतं देवतया देव ! सृतं मानुषिकैः सुखैः । श्रीनेमे ! सततं मेऽस्तु सुलभं तव दर्शनम् ॥ ५ ॥
Jain Education International
[ कर्तृनाम
For Personal & Private Use Only
www.jainelibrary.org