________________
नामकम् ]
श्रीपवीजन स्तवनम्
[ १०९ ]
स्तम्भपुरावतंस
श्रीपार्श्वजिनस्तवनम् ।
रमाकरो यो जगतो रमाकरो रुगावलीनां हरणे रुगावली । सदैव तं पार्श्वजिनं सदैवतं समाहितं नौमि हतासमाहितम् ॥१॥
( ३५१ )
सुखावली नारिभवा सुखावली रजद्वयं ते पदनीरजद्वयम् । सुभावतो वृत्तिसमैः सुभावतो महामहिम्नां भवनं महामहि ॥२॥ सुवर्णतेजोनिया सुवर्ण ते प्रभूतया कान्तनखप्रभूतया । पदारविन्दं रुचि सम्पदा रविं सदानवं द्वेष्टि सदा सदानवम् ||३||
•
कुलं भवग्रीष्मसमाकुलं भवन्मुखं विशान्तिं शरणोन्मुखं विशाम् । सुधाम योगीश ! यथा सुधामयोऽभयानकः प्रीणयतीभनायकः || ४ | नतो महातायक ! विघ्नतो महाननारतं तावकमाननारतम् । रमासमासेवितनारमासदालिनीव नन्देन मृणालिनी वनम् ॥५॥
Jain Education International
दरं हरन्तं समसुन्दरं हरं मनोभवे त्वं शिवकामनो भवे । भ्रमन्नवापं मनसो भ्रमं नवा शयाधुनानं शुभगाशयाऽधुना ॥ ६ ॥ इत्थं श्रीस्तम्भन पुरवरे x x x x
For Personal & Private Use Only
www.jainelibrary.org